________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४४
स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ स्वगतानेकभेदसूचकौ, 'आसीविसा' इत्यादि, आस्यो- दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तं च- 'आसी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा' इति, द्दष्टौ विषं येषां ते द्दष्टिविषाः, उग्रं विषं येषां ते उग्रविषाः, भोगः - शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, त्वचि विषं येषां त त्वग्विषाः, प्राकृतत्वाच्च 'तयाविसा' इति पाठः, लाला - मुखात् श्वावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विषं येषां ते निश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रत्येतव्याः ।
४८
'से किं तं आसालिगा' इत्यादि, अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-‘कहिणं भंते!’इत्यादि, क णमिति वाक्यालङ्कारे भदन्त ! परमकल्याणयोगिन् ! आसालिया संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूर्च्छिमैव तत उक्तं संमूर्च्छति, भगवानाह - गौतम ! अन्तः- मध्ये मनुष्यक्षेत्रस्य न बहि, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थ तेषु, एतावता लवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निव्यार्घातेन' व्याघातस्याभावो निव्यार्घातं तेन, यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमादिरूपोऽतिदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसुकर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य ।
किमुक्तं भवति ? - यदि पञ्चसु भरतेषु पञ्चस्वैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्त्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिकः - सामान्यराजाऽल्पर्द्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति बुद्धयादीन् गुणानिति यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामः, निगमः - प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्युतान्तर्ग्रामरहितं मडम्बं 'पट्टण' त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्त्रौभिरेव गम्यं तत्पट्टनं यत्पुनः शकटैर्घोटकैर्नोभिर्वा गम्यं तत्पत्तनं यथा भरूकच्छम्, ऊक्तं च
119 11
“पत्तनं शकटैर्गम्यं, घोटकैर्नोभिरेव च ।
नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्षते ॥”
द्रोणमुखं - प्रायेण जलनिर्गमप्रवेशम्, आकरो-हिरण्याकरादि आश्रमः - तापसावसथोपलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधनी - राजाधिष्ठानं नगरम्, 'एएसि ण' मित्यादि, एतेषां चक्रवर्त्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ णं ति एतेषु चक्रवर्त्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति सा च जघन्यतोऽङ्गुलासङ्घयेयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम्, उत्कर्षतो द्वादश योजनानि - द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं' द्वादशयोजनप्रमाणदैध्यानुरूपं 'विक्खंभबाहल्लेणं'ति विष्कम्भश्च बाहल्यं च तेन, विष्कम्भो - विस्तारो बाहल्यं च - स्थूलता,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International