________________
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः २
उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनं, पूर्वप्रतिपन्नसमय्कत्वस्यैतावतः कात्तादूर्ध्वं पुनरवश्यं सम्यग्दर्शनलाभात्, पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्यादृष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्तं सम्यग्मिथ्यादर्शनकालस्य स्वभावत् एवैतावन्मात्रत्वात्, नवरं जघन्यपदादुष्कृष्टपदमधिकमवसातव्यम् ।
साम्प्रतन्तरमाह-‘सम्मदिट्ठिस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्तं सम्यक्त्वात्त प्रतिपत्यान्तर्मुहूर्त्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपार्ध्वं पुद्गलपरावर्त्तम् । मिथ्याष्टिसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्वायोगात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शनकालश्च जघन्यत उत्कर्षतश्चैतावानिति ।
४८९
सम्यग्मिथ्यादृष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त्तं सम्यग्मिथ्यादर्शनात् प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यग्मिथ्यादर्शनभावात्, उत्कर्षतोऽनन्तं कालं यावदप्राद्धं पुद्गलपरावर्त्त देशोनं, यदि सम्यग्मिथ्यादर्शनात् प्रतिपतितस्य भूयः सम्यग्मिथ्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्ति । अल्पबहुत्वचिन्तायां सर्वस्तोकाः सम्यग्मिथ्याध्ष्टयः, तत्परिणामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात्, सम्यग्ध्ष्टयोऽनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यो मिथ्याध्ष्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्याधष्टित्वात् ॥
मू. (३७६) अहवा तिविहा सव्वजीवा पन्नत्ता - परित्ता अपरित्ता नोपरित्तानो अपरित्ता परित्ते णं भंते! कालतो केवचिरं होति ?, परित्ते दुविहे पन्नत्ते - कायपरित्ते य संसारपरित्ते य । कायपरित्ते णं भंते ० !, जह० अंतोमु० उक्को० असंखेज्जं कालं जाव असंखेज्जा लोगा ।
संसारपरित्ते णं भंते! संसारपरित्तेत्ति कालओ केवचिरं होति ?, जह० अंतो० उक्को० अनंतं जाव अव पोग्गलपरियट्टं देसूणं ।
अपरित्ते णं भंते! ०, अपरित्तेदुविहे पन्नत्ते, काय अपरित्ते य संसारअपरिते य, काय अपरित्ते णं जह० अंतो० उक्को० अनतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पन्नत्ते - अनादीए वा अपज्जवसिते अनादीए वा सपञ्जवसिते, नोपरित्तेनोअपरित्ते सातीए अपज्जवसिते ।
कायपरित्तस्स जह० अंतरं अंतो० उक्को० वणस्सतिकालो, संसारपरित्तस्स नत्थि अंतरं कायापरित्तस्स जह० अंतो० उक्को० असंखिज्जं कालं पुढविकालो । संसारापरित्तस्स अनाइयस्स अपज्जवसियस्स नत्थि अंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं, नोपरीत्तनो अपरित्तस्सवि नत्थि अंतरं ।
अप्पाबहु० सव्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा ।
वृ. ' अहवे' त्यादि, अथवा सर्वजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा - परीत्ता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्तापरीत्तविषयं प्रश्नसूत्रं, सुगमं, भगवानाह - गौतम ! परीत्तो द्विविधः प्रज्ञप्तस्तद्यथा - कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तो नाम प्रत्येकशरीरी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org