________________
४९०
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/२/३७६
संसारपरीत्तोऽपार्द्धपुद्गलपरावन्तिःसंसारः, तत्र कायपरीत्तविषयं प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचसाधारणेभ्यः परीत्तेष्वन्तर्मुहूर्तस्थित्वापुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, तथा चाह-पृथिवीकालः, किमुक्तं भवति ?-पृथिव्यादिप्रत्येकशरीरकालः, तत ऊर्ध्वं नियमतः संसारिणः साधारणभावात् । ___ संसारपरीत्तविषयं प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात्, उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्धपुद्गलपरावर्त यावत्, ततऊर्द्धनियमतः सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात्। 'अपरीत्तेणंभंते!' इत्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम!अपरीत्तो द्विविधःप्रज्ञप्तस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्तः-साधारणः, संसारापरीत्तःकृष्ण-पाक्षिकः, तत्र कायापरीत्तविषयं प्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तत ऊर्ध्वं कस्यापि प्रत्येकशरीरेषु गमनात्, उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असङ्खयेयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ताआवलिकायाअसङ्ख्येयोभागः।संसारापरीत्तप्रश्नसूत्रप्रतीतं, भगवानाह-गौतम संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धिं गन्ता, अनादिकोवा सपर्यवसितो भव्यविशेषः । नोपरीत्तनोअपरीत्तविषयंप्रश्नसूत्रप्रतीतं, नोपरीत्तनोअपरीत्तो हि सिद्धः, सच साधपर्यवसित एव प्रतिपाताभावात् ।
___ साम्प्रतमन्तरमाह-'कायापरीत्तस्स णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहूर्त स्थित्वा भूयः प्रत्येकशरीरेष्वागमनात, उत्कर्षतोऽनन्तं कालं, सचानन्तः काल-प्रागुक्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात्।
संसारपरित्तविषयंप्रश्नसूत्रसुगम, भगवानाह-गौतम!नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतत्वाभावात्, मुक्तस्य प्रतिपातासम्भवात्। कायापरीत्तसूत्रेजघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहूर्तस्थित्वाभूयः कायापरीत्तेषुकस्याप्यागमनसम्भवात्, उत्कर्षतोऽसङ्खयेयं कालंयावद्, असङ्खयेयाउत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽसङ्ख्येयालोकाः, पथिव्यादिप्रत्येकशरीरभवभ्रमणकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितदस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात्, नोपरीत्तनोअपरीत्तस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानांसंसारपरीत्तानांचाल्पत्वात्, नोपरीत्तानोअपरीत्ताअनन्तगुणाः सिद्धानामनन्तत्वात्, अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥
मू.(३७७) अहवा तिविहा सव्वजीवा पं० तं०-पजत्तगा अपज्जत्तगा नोपजत्तगानो अपजत्तगा, पजत्तकेणं भंते!०, जह० अंतो० उक्को० सागरोवमसतपुहुत्तंसाइरेगं। अपजत्तगे गंभंते !, जह० अंतो० उक्को० अंतो० नोपजत्तनोअपजत्तए सातीए अपज्जवसिते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org