________________
४८२
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३७१
प्रज्ञप्तास्तद्यथा-ज्ञानिनश्चअज्ञानिनश्च, ज्ञानमेषामस्तीतिज्ञानिनःन ज्ञानिनोऽज्ञानिनः मिथ्याज्ञानाइत्यर्थ
सम्प्रतिकायस्थितिमाह-'नाणीण'मित्यादिप्रश्नसूत्रसुगमं, भगवानाह-गौतम!ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः,सचकेवली केवलज्ञानस्यसाद्यसपर्यवसितत्वात, सादिकोवासपर्यवसितोमतिज्ञानादिणान्, मतिज्ञानादीनांछद्मस्थिकतयासादिसपर्यवसितत्वात, . 'तत्थणमित्यादि, तत्रयोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्यजघन्यत एतावन्मात्रकालत्वात्सम्यक्त्ववतश्चज्ञानित्वात्, यथोक्तम्-“सम्यग्द्दष्टेनिं मिथ्याटेर्विपर्यास" इति, उत्कर्षतः षट्षष्टिसागरोपमाणिसातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतिसम्यक्त्वस्य विजयादिगमनश्रवणात, तथा च भाष्यम्॥१॥ "दो वारे विजयाइसु गयस्स तिनिऽघुए अहव ताई।
अइरेगनरभवियं नानाजीवाण सव्वद्धा ।" 'अन्नामी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनादिको वाऽपर्यवसितःअनादिकोवा सपर्यवसितःसादिकोवासपर्यवसितः, तत्रनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिथ्याष्टि सम्यक्त्वमासाधाप्रतिपतितसम्यक्त्वएवक्षपकश्रेणिप्रतिपस्यते, सादिसपर्यवसितःसम्यग्दृष्टिभूत्वा जातमिथ्याष्टिः, स जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपत्य पुनरन्तरर्मुहूर्तेन कस्यापि सम्यग्दर्शनावापतिसम्भवात्, उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं ।
साम्प्रतमन्तरं प्रतिपादयति-'नाणिस्स णं भंते !' इत्यादि, ज्ञानिनो भदन्त ! अनन्तरं कालतः कियचिरंभवति?, भगवानाह-गौतम! सादिकस्यापर्यवसितस्यनास्त्यन्तरं, अपर्यवसितत्वेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जघन्यतोऽन्तर्मुहूर्त, एतावता मिथ्यादर्शनकालेनव्यवधानेन भूयोऽपिज्ञानभावात्, उत्कर्षणअनन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यःकालतःक्षेत्रतोऽपार्द्धपुद्गलपरावर्तदेशोनं, सम्यगध्ठेः सम्यक्त्वाप्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवइयं सम्यक्त्वासादनात्।
'अन्नाणिस्सणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम!अनाद्यपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्तकेवलज्ञानस्य प्रतिपाताभावात, सादिसपर्यवसानस्य जघन्येनान्तर्मुहूर्त, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादूर्द्ध सम्यग्दर्शनप्रतिपाते सत्यज्ञानाभावात् । अल्पबहुत्वसूत्र प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह'अहवेत्यादि,अथवाद्विविधाःसर्वजीवाःप्रज्ञप्तास्तद्यथधा-साकारोपयुक्ताश्चअनाकारोपयुक्ताश्च
सम्प्रति कायस्थितिमाह-'सागारोवउत्ताणंभंते!' इह छद्मस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत।अल्पबहुत्वचिन्तायांसस्तोका अनाकारोपयुक्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org