SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४५६ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३५५ संखेनगुणा सुहमपुढविआउवाउपजत्तगाविसेसाहिया सुहुमनिओया अपजत्तगा असंखेजगुणा सुहुमनिओया पजत्तगा संखेजगुणा सुहुमवणस्सतिकाइया अपज्जत्तगा अनंतगुणा सुहुमअपजत्ता विसेसाहिया सुहुमवणस्सइपजत्तगा संखेजगुणा सुहुमा पजत्ता विसेसाहिया ॥ वृ. 'एएसि ण'मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशपरिमाणत्वात, तेभ्यः सूक्ष्माफ्कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रमाणत्वात्, तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशराशिमानत्वात्, तेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, तेषां प्रतिगोलकमसङ्खयेयत्वात्, तेभ्यःसूक्ष्मवनस्पतिकायिका अनन्तगुणाः,प्रतिनिगोदमनन्तानांसद्भावात्, तेभ्यःसामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात्, तेषामौधिकानामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह-'एएसिणं भंते ! सुहुमअपज्जत्ताणमित्यादि सर्वं प्राग्वद् भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसिणं भंते ! सुहुमपज्जत्तगाण'मित्यादि, इदमपिप्रागुक्तक्रमेणैव भावनीयं ।।अधुनाऽमीषामेव सूक्ष्मादीनांप्रत्येकंपर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह-‘एएसि णं भंते ! सुहुमाणं पजत्तगाण'मित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्खयेयगुणाः, एकैकपर्याप्तनिश्रया असङ्खयेयानामपर्याप्तानामुत्पादात्, तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे-“पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्य एगो तत्थ नियमाअसंखेज्जा" इति, सूक्ष्मेषु पुनर्नायंक्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्खयेयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम्॥ गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानांपञ्चममल्पबहुत्वमाह'एएसि णमित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्य सूक्ष्मपृथिव्यबवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्ख्येयगुणाः,अपर्याप्तभ्यः पर्याप्तानांसङ्खयेयगुणानामेव भावितत्वात्, तेभ्यः सूक्ष्मपृथिव्यबवायवः पर्याप्ताः क्रमेण विशेषाधिकाः, कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्खयेयगुणास्तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मा निगोदाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः,प्रतिनिगोदमनन्तानांतेषां भावात्, तेभ्यः सामान्यतः सूक्ष्माअपर्याप्ता विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपितत्रप्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सङ्खयेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्खयेयगुणत्वव्याघातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात्। सम्प्रति बादरादीनां स्थित्यादि निरूपयति मू. (३५६) बायरस्सणंभंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतोमु० उक्को० तेत्तीसं सागरोवमाइं ठिई प० एवं बायरतसकाइयस्सवि बायरपुढवीकाइयस्स बावीसवाससहस्साईबायरआउस्स सत्तवाससहस्संबायरतेउस्स तिन्नि राइंदिया बायरवाउस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy