________________
प्रतिपत्तिः-५,
४५५
'सुहुमअपज्जत्तएणंभंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात्, एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री तक्तव्या एवं पर्याप्तविषयाऽपि सप्तसूत्री।
मू. (३५४) सुहुमस्सणंभंते! केवतियंकालं अंतरंहोति?, गोयमा! जहन्नेणं अंतोमु० उक्को० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स असंखेज्जतिभागो, सुहुमवणस्सतिकायस्स सुहुमनिओयस्सवि जाव असंखेजइभागो । पुढविकाइयादीणं वणस्सतिकालो । एवं अपज्जत्तगाणं पजत्तगाणवि ।।
वृ. साम्प्रतमन्तरं चिचिन्तयिषुराह-'सुहुमस्सण मित्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम! जघन्येनान्तर्मुहूर्त, सूक्ष्मादुद्धृ त्यबादरपृथिव्यादावन्तर्मुहूर्तस्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात्, उत्कर्षतोऽसङ्खयेयं कालं, तमेवासङ्खयेयं कालं कालक्षेत्राभ्यां निरूपयतिअसङ्खयेया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासङ्घयेयो भागः, किमुक्तं भवति?-अङ्गुलमात्रक्षेत्रस्यासङ्ख्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमयमेकैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति तावत्य इति। _ 'सुहुमपुढविक्काइयस्सणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवंपरिपूर्णपाठः-'अनंताओ उस्सप्पिणीओसप्पिणीओकालतोखेत्ततो अनंतालोगा असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' अस्य व्याख्या पूर्ववत्, भावना वेवम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्ध त्यानन्तर्येण पारम्पर्येण वा वनस्पतिष्वपिमध्ये गच्छति तत्रचोत्कर्षत एतावन्तंकालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्मा कायिकतेजस्कायिकवायुकायिकसूत्राण्यपि वक्तव्यानि ।
सूक्ष्मवनस्पतिपाकियसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयं कालं, स चासङ्खयेयः कालः पृथिवीकालो वक्तव्यः, स चैवम्-'असंखेज्जा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति, सूक्ष्मवनस्पतिकायभवादुद्ध तोहि बादरवनस्पतिषु सूक्ष्मबादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोक्तप्रमाणमेवान्तरं, एवं सूक्ष्मनिगोदस्याप्यन्तरं वक्तव्यं, यथाचेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्याप्तविषया सप्तसूत्री पर्याप्तविषया च सप्तसूत्री वक्तव्या, नानात्वाभावात् ॥ सामप्रतमेतेषामल्पबहुत्वमाह
मू. (३५५) एवं अप्पाबहुगं, सव्वत्थोवा सुहुमतेउकाइया सुहमपुढविकाइया विसेसाहिया सुहुमआउवाऊ विसेसाहिया सुहुमनिओया असंखेनगुणा सुहुमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया, एवं अपजत्तगाणं, पञ्जत्तगाणवि एवं चेव।
एतेसि णं भंते ! सुहमाणं पज्जत्तापज्जत्ताणं कयरे० ?, सव्वत्थोवा सुहुमा अपज्जत्तगा संखेजगुणा पज्जत्तगा एवं जाव सुहुमनिगोया ।। एएसिणं भंते ! सुहमाणं सुहमपुढविकाइयाणं जाव सुहुमनिओयाण य पज्जत्तापज्जत्ता० कयरे २ ?
सव्वत्थोवा सुहुमतेउकाइया अपज्जत्तगा सुहमपुढविकाइया अपज्जत्तगा विसेसाहिया सुहुमआउअपज्जत्ता विसेसाहिया सुहुमवाउअपजत्ता विसेसाहिया सुहुमतेउकाइया पजत्तगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org