SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४५४ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३५२ सातव्यम्, अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थं पृथग् निगोदसूत्रं ?, तदयुक्तं सम्यग्वस्तुतत्वापरिज्ञानात्, सूक्ष्मवनस्पतयो हि जीवा विक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमननतानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोषः, उक्तञ्च॥१॥ “गोला य असंखेज्जा असंखनिगोदो य गोलओ भणिओ । एक्किकंमि निगोए अनंतजीवा मुणेयव्वा ।। ॥२॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि । एगनिगोदे निच्चं एवं सेसेसुवि स एव ।। ॥३॥ अंतोमुहुत्तमेत्तं ठिई निगोयाण जंति निद्दिवा। पल्लटुंति निगोया तम्हा अंतोमुहुत्तेणं ॥ आसामक्षरगमनिका-सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽअनचूर्णपूर्णसमुद्गवत्, तस्मिन्नित्थं निगोदैव्याप्त लोके निगोदमात्रावगाहना असङ्खयेया निगोदा वृत्ताकारा बृहप्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्-असङ्खयेयागोलाः, एकैकस्मिंश्चगोलकेऽसङ्खयेया निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसङ्खयेयतमो भागः प्रतिसमयमुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसङ्खयेयतमो भाग उद्वर्ततेऽन्यश्चासङ्ख्येयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसङ्खयेयभाग उद्वर्त्तते अन्यश्चापूर्व उत्पद्यते, एवंसकलकालमनुसमयमुद्वर्तनोपपातौ, अतएव ‘एगनिगोदे निच्च मिति नित्यग्रहणं, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसङ्घयेयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानां निगोदजीवानां स्थितिर्विनिर्दिष्टाऽन्तर्मुहूर्त्तमात्रं तस्मात्सर्वेऽपि निगोदा अनुसमयमुद्वर्तनोत्पाताभ्यामन्तर्मुहूर्त्तमात्रेण परावर्तन्ते न च शून्या भवन्तीति। एवं सप्तसूत्री अफर्याप्तविषया सप्तसूत्री पर्याप्तविषया वक्त्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम् ।। सम्प्रति कायस्थितिमाह ___ मू. (३५३) सुहुमे णं भंते ! सुहुमेत्ति कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं अंतोमुहत्तंउक्कोसेणं असंखेज्जकालंजाव असंखेजा लोया, सव्वेसिंपुढविकालोजाव सुहुमनिओयस्स पुढविकालो, अपजत्तगाणं सव्वेसिंजहन्नेणवि उक्कोसेणविअंतोमुहत्तं, एवं पञ्जत्तगाणवि सव्वेसिं जहन्नेणवि उक्कोसेणवि अंतोमुहत्तं । वृ. 'सुहुमे णं भंते ! सुहुमेत्तिकालओ' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तम्, अन्तर्मुहूर्तानन्तरं बादरपृथिव्यादावुत्पादात्, उत्कर्षतोऽसङ्खयेयकालं, तमेवासङ्खयेयकालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सपिण्यवसर्पिण्यः, एषाकालतो मार्गणा क्षेत्रतोऽसङ्खयेयालोकाः, असङ्खयेयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भवति तावान् असङ्खयेयः काल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रतिसूक्ष्मादीनामेवापर्याप्तानां कास्थितिमधित्सुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy