________________
४५२
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३४८ तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्तेन निरूपयति-असङ्खयेयाः पुद्गलपरावर्ताः, पुद्गलपरावर्तस्वरूपंपञ्चसमहटीकातोभावनीयं, पुद्गलपरावर्तगतमेवासङ्ख्येयत्वंनिर्धारयति'ते ण मित्यादि, ते पुद्गलपरावर्ता आवलिकाया असङ्खयेयो भागः, आवलिकाया असङ्खयेये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापिसक्षेपेणोक्तः॥१॥ "अस्संखोसप्पिणीसप्पिणीउ एगिदियाण य चउण्हं।
__ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ।।" त्रसकायसूत्रे द्वे सागरोपमसहस्र सङ्घयेयवर्षाभ्यधिके, एतावत एवाव्यवधानेन त्रसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां षट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात। मू. (३४९) वाससहस्सा संखा पुढविदगानिलतरूण पजत्ता।
तेऊ राइंदिसंखा तससागरसतपुहुत्ताई॥ वृ.पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्खयेयानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्खयेयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयर्याप्तभवसङ्कलनायामपि सङ्खयेयानि रात्रिन्दिवानिलभ्यन्तेन सुमासावर्षाणिवर्षसहस्राणिवा । वायुकायिकसूत्रवनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सातिरेकम् ।
मू. (३५०) पज्जत्तगाणविसव्वेसिं एवं ॥ पुढविकाइयस्सणंभंते! केवतियं कालं अंतरं होति?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणप्फतिकालो । एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढविकाइयकालो । एवं अपजत्तगाणवि वमस्सइकालो, वणस्सईणंपुढविकालो, पज्जत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढविकालो॥
वृ. सम्प्रत्यन्तरनिरूपणार्थमाह-'पुढविकाइयस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तं पृथिवीकायादृद्ध त्यान्यत्रान्तर्मुहूरत्तं स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, सचानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्ध त्य तावन्तं कालं वनस्पतिष्वस्थानसम्भात् । एवप्तेजोवायुत्रससूत्राण्यपि भावनीयानि।वनस्पतिसूत्रे उत्कर्षतोऽसङ्खयेयंकालम् 'असंखेजाओ उस्सप्पिणीओसप्पिणीओकालतो खेत्ततोअसंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्ध त्य पृथिव्यादिष्ववस्थानात् तेषुच सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् ।। सम्प्रत्यल्पबहुत्वमाह
मू. (३५१) अप्पाबहुयं-सव्वत्थोवातसकाइया तेउक्काइया असंखेज्जगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउक्काइया विसेसाहिया वमस्सतिकाइया अनंतगुणा एवं अपज्जत्तगावि पञ्जत्तगावि।
एतेसिणं भंते ! पुढविकाइयाणं पज्जत्तगाण अपजत्तगाण य कयरे२ हितो अप्पा वा एवं जाव विसेसाहिया?, गोयमा ! सव्वत्थोवा पुढविकाइया अपञ्जत्तगा पुढविकाइया पज्जत्तगा संखेजगुणा, एतेसिणं० सव्वत्थोवा आउक्काइया अपजत्तगासंखेजगुणाजाव वणस्सतिकाइयावि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org