SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४५० जीवाजीवाभिगमउपाङ्गसूत्रम् ४/-/३४५ योजनकोटीकोटीमानत्वात्, तेभ्य एकेन्द्रियाअनन्तगुणाः, वनस्पतीनामनन्तानन्तत्वात् । सम्प्रत्येतेषामेवापर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-एएसिण'मित्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन् प्रतरे यावन्त्यमुलासङ्खयेयभागमात्राणि खण्डानि तावप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरामुलासङ्खयेयभागखण्डप्रमाणत्वात्, तेभ्यस्त्रन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरप्रतराग्लासङ्खयेयभागखण्डप्रमाणत्वात्, तेभ्यो द्वीन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततमप्रतरागुलुसङ्खयेभागखण्डमानत्वात्, तेभ्य एकेन्द्रियपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपप्तिानामनन्तानन्ततया सदा प्राप्यमाणत्वात् ॥ अधुनैतेषामेव पर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह- 'एएसिण मित्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्तायतोऽल्पाषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यमुलासङ्खयेयभागमात्राणि खण्डानि तावप्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रबूततरामुलासङ्खयेयभागखण्डमानत्वात्, तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतराङ्गुलसङ्खयेयभागखण्डप्रमाणत्वात्, तेभ्योऽपि त्रीन्द्रियपर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततराङ्गुलसङ्घयेयभागखण्डप्रमाणत्वात्, तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्तत्वात्। साम्प्रतमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तानां समुदितानामल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियाणामाह-एएसिणं'मत्यादि प्रश्नसूत्रं गतं, भगवानाह-गौतम! सर्वस्तोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सङ्खयेयगुणाः, एकेन्द्रियेषुहि बहवः सूक्ष्माः सर्वलोकापन्नत्वात्, सूक्ष्माश्चापप्तिाः सर्वस्तोकाः पर्याप्ताः सङ्खयेयगुणाः, द्वीन्द्रियसूत्रे सर्वस्तोका द्वीन्द्रियापर्याप्ता यावन्ति प्रतरेऽगुलस्य सङ्खयेयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां तेभ्योऽपर्याप्ता असङ्खयेयगुणाः, द्वीन्द्रियसूत्रेसर्वस्तोका द्वीन्द्रियापर्याप्तायावन्तिप्रतरेऽङ्गुलस्य सङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां तेभ्योऽपर्याप्ताअसङ्खयेयगुणाः प्रतरगतामुलासङ्घयेयभागखण्डप्रमाणत्वात्, एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वाल्यपि वक्तव्यानि। साम्प्रतमेकेन्द्रियाणां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसि ण'मित्याद, इदं प्रागुक्ततृतीयद्वीतीयाल्पबहुत्वभावनानुसारेम स्वयं भावनीयं, तत्वतो भावितत्वात्, उपसंहारमाह-‘सेत्तं पंचविहा' इत्यादि। चतुर्थी प्रतिपत्तिः समाप्ताः मुनि दीपरल सागरेण संशोधिता सम्पादिता जीवाजीवा भिगमसूत्रे चतुर्थी प्रतिपत्याः मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। पंचमी प्रतिपत्तिः "षड् विधाः" - वृ. उक्ता पञ्चविधा प्रतिपत्तिरघुना क्रमप्राप्ता षड्विधप्रतिपत्तिमभिधित्सुराह मू. (३४६) तत्य णं जे ते एवमाहंसु छव्विहा संसारसमावन्नगा जीवा ते एवमाहंसु, तंजहा-पुढविकाइया आउक्काइया तेउ० वाउ० वणस्सतिकाइया तसकाइया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy