SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, वै० उद्देशकः १ ४२५ अत्रापि यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा' इत्यादिपरिग्रहः । एत्थ ण' मित्यादि, 'अत्र' एतेषु द्वात्रिंशतशतसहस्रसङ्घयेषु विमानेषु बहवः सौधर्म्मकाः - सौधर्मा एव सौधर्म्मका देवः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जोवेमाणा' अत्र यावत्करणात् 'महायसा महाबला महानुभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुक्तपरिग्रहः, 'तेणं तत्थ साणं साणंविमाणाणं साण र सामाणियाणं साणं २ अग्गमहिसीणं साणं २ परिसाणं साणं २ अणियाणं साणं २ अनियाहिवईणं साणं २ आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जाव विहरंति' सुगमं । 'सक्के य एत्थ' इत्यादि, अत्र - एतस्मिन् सौधर्मे कल्पे शक्र - शकनात् शक्र देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह- 'वज्रपाणि' वज्रं पाणावस्य वज्रपाणि, असुरपुरदारणात् पुरन्दरः, 'सयक्कऊ' इति शतं क्रतूनां प्रतिमानां - अभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्त्तिकश्रेष्ठिभवापेक्षया यस्य स शतक्रतुः, 'सहस्सक्खे' इति सहस्रमक्ष्णां यस्यासी सहस्राक्षः, इन्द्रस्य हि किल मन्त्रिणां पञ्च शतान्यात्मना सह परिपूर्णानि सन्ति तदीयनामक्ष्णामिन्द्रप्रयोजनव्यापृतत्वाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षत्वं, 'मघवं' इति मघा - महामेघास्ते यस्य वशे सन्ति स मघवान्, पाको नाम बलवान् रिपुः स शिष्यते-निराक्रयते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपति मेरोर्दक्षिणतः सर्वस्यापि तदाभाव्यत्वात्, द्वात्रिंशद्विमानावासशतसहनाधिपति, सौधर्मे कल्पे एतावतां विमानावासशतसहस्राणां भावात्, एरावणवाहनः, एरावणनाम्नो गजपतेस्तद्वाहनस्य भावात्, सुरेन्द्रः सौधर्मवाहिनां सुराणां सर्वेषामपि तदाज्ञावर्त्तित्वात् । 'अरयंबरवत्थधरे' इति अरजांसि - रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रघरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलिङ्गितं - आविद्धं मालामुकुटंयेन स आलिङ्गितमालामुकुटः कृतकण्ठेमाल आविद्धशिरसिमुकुट इति भावः, 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे' नवमिव - प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, 'महिड्डिएजाव दसदिसाओ उज्जोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजुईए महाबले महायसे इत्यादि पूर्वोक्तपरिग्रहः, सौधर्मे कल्पे सौधर्मावतंसके विमाने सभायां सुधर्मायां शक्र सिंहासने 'से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयस्त्रिंशतस्त्रायस्त्रिंशकानां चतुर्णां लोकपालानामष्टानामग्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतसृणां चतुरशीतीनामात्मरक्षदेवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च 'आहेवच्चं जाव भुंजमाणे विहरइ' अत्र यावत्करणात् 'पोरेवच्चंसामित्तं भट्टित्तमित्यादि परिग्रहः ॥ मू. (३२५) सक्कस्स णं भंते! देविंदस्स देवरन्नो कति परिसाओ प० गा० तओ परिसाओ प० तंजहा-समिता चंडा जाता, अब्भितरिया समिया मज्झिमिया चंडा बाहिरिया जाता । सक्कस्स णं भंते! देविंदस्स देवरन्नोअब्भितरियाए परिसाए कति देवसाहस्सीओप० ?, मज्झिमिया परि० तहेव बाहिरियाए पुच्छा, गो० सक्कस्स देविंदस्स देवरन्नो अभितरियाए परिसाए बारस देवसाहस्सीओ प० मज्झिमियाए परिसाए चउदस देवसाहस्सीओ प० बाहिरियाए परिसाए सोलस देवसाहस्सीओ पण्णत्ताओ, तहा अब्भितरियाए परिसाए सत्त देवीसयाणि मज्झिमियाए छच्च देवीसयाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy