SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-१/३२४ पद्मपक्ष्मगौराःश्रेयांसः-परमप्रशस्याः शुभवर्णगन्धस्पर्शा 'उत्तमविकुर्विणः' उत्तमविकुर्वन्तीत्येवंशीलाउत्तमविकुर्विणः, विविहवत्थमल्लधारी' विविधानि शुभात्शुभतराणि वस्त्रणिमाल्यानि च धारयन्तीत्येवंशीला विविधवस्त्रमाल्यधारिणः महर्द्धिका महाद्युतयो महायशसो महाबला महानुभागा महासौख्याःतथा 'हारविराइयवच्छा कडगतुडियथंभियभुयासंगयकुंडलमट्ठगंडयलकण्णपीढधारी विचित्तहत्याभरणा विचित्तमालामउली कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संजयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वाए अच्चीए दिव्वेणंतेएणंदिव्वाए लेसाए दस दिसाओउज्जोवेमाणा' इतिप्रागुक्तासुरकुमारवनेतव्यम् 'ते णं तत्थ साणं साण'मित्यादि, ते वैमानिका देवाः शक्रादयोऽच्युतपर्यवसानास्तत्र स्वस्वकल्पे स्वेषां स्वेषां विमानावासशतसहस्राणां स्वेषां स्वेषां सामानिकसहस्राणां स्वेषां स्वेषां त्रायस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां २ पर्षदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षदेवसहस्राणां, अन्येषांचबहूनांदेवानांदेवीनांच आहेवच्चं पोरेवचं सामित्तंभट्टित्तं महयरगत्तं आणाईसरसेनावच्चं कारेमाणापालेमाणा महयाहयनट्टगीयवाइयतंतीलतालतुडियघणमुइंगपडुप्पवाइयरवेणंदिव्वाई भोगभोगाई भुंजमाणा विहरंती'ति । _ 'कहि गंभंते!' इत्यादि, कव भदन्त ! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त! सौधर्मकल्पदेवाः परिवसन्ति?, भगवानाह-गौतम! 'जम्बुद्दीवे दीवे मंदरस्सपव्वयस्स दाहिणेणंइमीसेरयणप्पभाएपुढवीए बहुसमरमणिज्जाओभूमिभागाओउर्ल्डचंदिमसूरिमगहनक्खत्तताराख्वाणं बहूणि जोयणाई बहूणि जोयणसयाई बहूणि जोयणसहस्साई बहूणि जोयणसयसहस्साइं उडं दूर उप्पइत्ता' इति प्राग्वत् । “एत्थ णं' 'अत्र' एतस्मिन् सार्द्धपज्जूपलक्षिते क्षेत्रे सौधर्मो नाम कल्पः प्रज्ञप्त-, स च प्राचीनापाचीनायत् उदग्दक्षिणविस्तीर्ण अर्द्धचन्द्रसंस्थानसंस्थितः मेरोदक्षिणतस्तस्य भावात्, 'अर्चिाली' अर्चीषि-किरणास्तेषांमाला अर्चिालासाअस्यास्तीतअर्चिालीसर्वतः किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-इङ्गालराशिवर्णाभिः प्रभाभिः पद्मरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणांअत्यन्तोत्कटतया साक्षादङ्गारराशिरिव ज्वलन्नदभासत इति भावः, असङ्खयेयायोजनकोटाकोटयः परिक्षेपेण सर्वात्मनारलमयोऽच्छः, यावत्करणात् ‘सण्हे लण्हे घटे मढे' इत्यादिपरिग्रहः । _ 'तत्थण'मित्यादि, तत्थण'मितिपूर्ववत्, सौधर्मकल्पेद्वात्रिंशद्विमानावासशतसहस्राणि भवन्तीत्याख्यातंमयां शेषैश्च तीर्थकृभिः । तेणं विमाणा' इत्यादि, तानि विमानानि सर्वात्मना रत्नमयानिअच्छानि यावप्रतिरूपाणि, अत्रापियावत्करणात् ‘सण्हालण्हाघट्टामट्ठा' इत्यादिपरिग्रहः ।। 'तेसिण'मित्यादि, तेषां विमानानां बहुमध्ये पञ्चावतंसका-विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-'असोगवडिंसए' इति, पूर्वस्यां दिशि अखोसावतंसकः दक्षिणस्यां सप्तपर्णावतंसकः अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये तेषां सौधर्मावतंसकः। 'तेणं वडेंसया' इत्यादि, ते पञ्चाप्यवतंसकाः सर्वात्मनारलमयाअच्छा यावप्रतिरूपाः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy