SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, जो० ४१९ परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना चन्द्रादिविमानानि तथाजगत्स्वाभाव्यान्निरालम्बनान्येव वहन्त्यवतिष्ठन्ते, केवलमभियोगिका देवास्ते तथाविधनामकर्मोदयशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद्गजरूपाणि केचिद्वृषभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं यथा हि कोऽपि तथाविधाभियोग्यनाम - कर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म्म नामकसमक्षं प्रमुदितः करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहा इति निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यनमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सङ्ग्रहणगाथे 119 11 "सोलस देवसहस्सा वहंति चंदेसु चेव सूरेसु । अट्ठेव सहस्सारं एक्कक्कमि गहविमाणे ॥ चत्तारि सहस्साइं नक्खत्तंमि य हवंति एक्केके । दो चेव सहस्साइं तारारूवेक्कमेक्कंमि ॥ क्वचित्सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न द्दष्टमित्युपेक्षितं, अवश्यं चेत्तद्वयाख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीकां जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्वयाख्यानस्य कृतत्वात् ॥ मू. (३१६) एतेसि णं भंते चंदिमसूरियगहगणनक्खत्ततारारूवाणं कयरे कयरेहिंतो सिग्घगती वा मंदगती वा ?, गोयमा ! चंदेहिंतो सूरा सिग्घगती सूरेहिंतो गहा सिग्घगति गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहिंतो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्घगतीओ तारारूवे वृ. 'एएसि णमित्यादि, एतेषां चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भगवानाह - गौतम ! चन्द्रेभ्यः सूर्या शीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः ग्रहेभ्यो नक्षत्रामि शीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हीनहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात्, एतच्च सविस्तरं चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ भावितमिति ततोऽवधार्यं, एवं च सर्वमन्दगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः मू. (३१७) एएसि णं भंते! चंदिमजावतारारूवाणं कयरे २ हिंतो अप्पिड्डिया वा महिड्डिया वा ?, गोयमा ! तारारूवेहिंतो णक्खत्ता महिड्डीया नक्खत्तेहिंतो गहा महिड्डीया गहेहिंतो सूर। महिड्डीया सूरेहिंतो चंदा महिड्डीया, सव्वप्पड्डिया तारारूवा सव्वमहिड्डीया चंदा ।। वृ. 'एएसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्दधिकाः । भगवानाह - गौतम ! तारकेभ्यो नक्षत्राणि For Private & Personal Use Only www.jainelibrary.org ॥२॥ Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy