SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -१ ३९ "पुलाकिमियाकुच्छिकिमियागंडूयलगा गोलोमा नेउरा सोमंगलगावंसीमुहा सूईमुहागोजलोया जलोयाजालायुसा संखासंखाणगा घुल्ला खुल्लावराडा सोत्तिया मोत्तिया कल्लुयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा इति" अस्य व्याख्या-'पुलाकिमिया' नामवायुप्रदेशोत्पन्नाः कृमयः कुक्षिकमयः' कुक्षिप्रदेशोत्पन्नाः ‘गण्डोयलकाः'प्रतीताः 'शङ्खाः' समुद्रोद्भवास्तेऽपिप्रतीताः शङ्खनकाः' त एवलघवः ‘घुल्लाः' घुल्लिकाः 'खुल्लाः' लघवः शङ्खाः सामुद्रशङ्खाकाराः 'वराटाः' कपर्दा 'मातृवाहाः' कोद्रवाकारतयायेकोद्रवा इतिप्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्यः 'चन्दनकाः' अक्षाः, शेषास्तुयथासम्प्रदायवाच्याः 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि, ते द्वीन्द्रियाः ‘समासतः' सङ्क्षपेणद्विविधाः प्रज्ञप्ताः,-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषांत्रीणिशरीराणि औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽ कुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारेछेदवर्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम्, अस्थिनिचयभावात, संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चत्वारः कषायाः, संज्ञाद्वारे चतन आहारादिकाः संज्ञाः, लेश्याद्वारे आद्यास्तिनलेश्याः, इन्द्रियद्वारे द्वेइन्द्रिये, तद्यथा-स्पर्शनंरसनंच, समुद्घातद्वारेत्रयः समुद्घाताः, -वेदनासमुद्घातः कषाय-समुद्घातोमारणान्तिकसमुद्घातश्च । संज्ञाद्वारे नो संज्ञिनोऽसंज्ञिनः, वेदद्वारे नपुंसकवेदाः, संमूर्च्छिमत्वात्, पर्याप्तिद्वारे पञ्चपर्याप्तयः पञ्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिथ्यादृष्टयो वा, न सम्यग्मिथ्यादृष्टयः, कथप् ? इतिचे उच्यते, इहघण्टायावादितायां महान् शब्द उपजायते,तत उत्तरकालंहीयमानोऽवसाने लालामात्रं भवति, एवममुनाघण्टालालान्यायेन किञ्चित्सास्वादनसम्यक्त्वशेषाः केचिद्वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्त्वसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिथ्याष्टिता यत्तु सम्यग्मिथ्यादुष्टित्वंतन संभवति, तथाभवस्वभावतया तथारूप० परिणामायोगात्, नापि सम्यग्मिथ्याष्टिसन् तत्रोत्पद्यते 'नसम्ममिच्छोकुणइ कालं' इति वचनात्, दर्शनद्वारंप्राग्वत्, ज्ञानद्वारे ज्ञानिनोऽप्यज्ञानिनोऽपि, तत्र ज्ञानित्वं सास्वादनसम्यक्त्वापेक्षया, तेच ज्ञानिनोनियमाद्विज्ञानिनो, मतिश्रुतज्ञानमात्रमावात्, अज्ञानिनोऽपि नियमाद् द्वयज्ञानिनो, मत्यज्ञानश्रुताज्ञानमात्रभावात्, योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगिनोऽपि, उपयोगद्वारे पूर्ववत्, आहारो नियमात् षड्दिशि। वसनाड्याएवान्तर्दीन्द्रियादीनां भावात्, उपप्रातोदेवनारकासङ्ख्या तदर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोद्वादशवर्षाणि, समवहतद्वारंप्रागिवच्यवनद्वारे देवनारकासङ्ख्यातवर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वननमुद्धृ त्य गमनम्, अतएवा गत्यागतिद्वारे द्वयागतिकाद्विगतिकाः तिर्यग्मनुग्यगत्यपेक्षया, 'परित्ताः' प्रत्येकशरीरिणः, असङ्ख्येयाघनीकृतस्यलोकस्ययाऊर्ध्वाधआयताएकप्रादेशिक्यः,श्रेणयोऽख्येि ययोजनकोटाकोटीप्रमाणाकाशसूचिगत- प्रदेशराशिप्रमाणाः तावप्रमाणत्वात्, प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेतंबेइंदिया' । उक्ता द्वीन्द्रियाः, अघुना त्रीन्द्रियानाह मू. (३७) से किं तं तेइंदिया ?, २ अनेगविधा पन्नत्ता, तंजहा-ओवइया रोहिणीया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy