________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १ /-/ ३४
वातो यो गुञ्जन् - शब्दं कुर्वन् वाति, झञ्झावातः सवृष्टि, अशुभनिष्ठुर इत्यन्ये, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, धनवातो धनपरणामो वातो रत्नप्रभापृथिव्याद्यघोवर्त्ती, तनुवातोविरलपरिणामो धनवातस्याधः स्थायी, शुद्धवातो मन्दस्तिमितो, बस्तिद्दत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत् ।
तथा शरीरादिद्वारकलापचिन्तायां शरीरद्वारे चत्वारि शरीराणइ औदारिकवैक्रियतैजसकार्मणानि, चत्वारः समुद्घाताः - वैक्रयवेदनाकषायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निव्यार्घातेन षदिशि, व्याघातं प्रतीत्य स्यात्रिदिशिस्याच्चतुर्दिशि स्यात्पञ्चदिशि, लोकनिष्कुटादावपि बादरवातकायस्य सम्भवात्, शेषं सूक्ष्मवातकायवत्, उपसंहारमाह-'सेत्तं वाउक्काइया' इति ।
उक्ता वातकायिकाः, सम्प्रत्यौदारिकत्रसानाह
३८
मू. (३५) से किं तं ओराला तसा पाणा ?, २ चउव्विहा पन्नत्ता, तंजहा - बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया ॥
वृ. अथ के ते औदारिकत्रसाः ?, सूरिराह - औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथाद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनघ्राणारूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः, चत्वारि स्पर्शनरसनघ्राणचक्षूरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पञ्च स्पर्शनरसनघ्राणचक्षः श्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः
तत्र द्वीन्द्रियप्रतिपादनार्थमाह
मू. (३६) से किं तं बेइंदिया ?, २ अनेगविधा पन्नत्ता, तंजहा - पुलाकिमिया जाव समुद्दलिक्खा, जे यावन्ने तहप्पगारा, ते समासतो दुविहा प० तं० - पत्ता य अपजत्ता य । तेसिणं भंते! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! तओ सरीरगा प० तं० ओरालिए तेयए कम्मए । तेसि णं भंते! जीवाणं के महालिया सरीर ओगाहणा पन्नत्ता ?, जहन्नेणं अंगुलासंखेज्जभागं उक्कोसेणं बारसजोयणाई छेवट्ठसंघयणा हुंडसंठिता, चत्तारि कसाया, चत्तारि सण्णाओ, तिन्नि लेसाओ, दो इंदिया, तओ समुग्धाता - वेयणा कसाया मारणंतिया, नोसन्नी असन्नी, नपुंसकवेदगा, पंच पज्जत्तीओ, पंच अपज्जत्तीओ, सम्मद्दिद्वीवि मिच्छदिट्ठीवि नो सम्ममिच्छदिट्ठी, नो ओहिदंसणी णो चक्खुदंसणी अचक्खुदंसणी नो केवलदंसणी ।
ते णं भंते! जीवा किं नाणी अन्नाणी ?, गोयमा ! नाणीव अन्नाणीवि, जे नाणी ते नियमा दुन्नाणी, तंजहा - आभिनिबोहियनाणी सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणीमतिअन्नाणी य सुयअन्नाणी य, नो मनजोगी वइजोगी कायजोगी, सागारोवउत्तावि अनागारोवउत्तावि । आहारो नियमाछद्दिसिं, उववातो तिरियमणुस्सेसु नेरइयदेव असंखेज्जवासाउयवज्जेसु, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराणि, समोहतावि मरंति असमोहतावि मरंति । कहिं गच्छंति ?, नेरइयदेव असंखेज्जवासाउअवज्जेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेज्जा, सेत्तं बेइंदिया ॥
वृ. ‘से किं त’मित्यादि, अथ के ते द्वीन्द्रियाः ?, सूरिराह - द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'पुलाकिमिया जाव मसुद्दलिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org