________________
४१६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३१४ अभ्युद्गतोत्सृतप्रभासितं, यावत्करणात् ‘विविहमणिरयणभत्तिचित्ते वाउछुयविजयवेजयन्ती पडागछत्तातिछत्तकलिए तुंगे गगनतलमणुलिहंतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगथूभियागेवियसियसयवत्तपुंडरीयतिलगरयणद्धचंदचित्तेअंतोबहिचसण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवेपासाईए दरिसणिज्जे अभिरुवेपडिरूवे' इति, तत्र विविधा-अनेकप्रकारा मणयः-चन्द्रकान्तादयोरत्नानिच-कर्केतनादीनितेषांभक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रंअनेकरूपवद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनांपार्श्वकर्णिका उच्यन्तेतप्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः।
छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्भूतविजयवेजयन्तीपताकाकलितंतुझं-उच्चम्अत एव 'गगनतलमणुलिहंतसिहरं गगनतलमनुलिखद्-अभिलङ्ख्यद् गगनतलानुलिखच्छिखरं, तथाजालानि-जालकानितानिच भनभित्तिषुलोकेप्रतीतानितदन्तरेषु विशिष्टशोभनिमित्तं रत्नानि यत्र तज्जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जराद् उन्मीलितमिव-बहिष्कृतमिवपञ्जरोन्मीलितमिव, यथाहि किल किमपिवस्तु पञ्जराद्वंशादिमयप्रच्छादनविशेषाबहिष्कृतमत्यन्तमविनष्टच्छायत्वात्शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्चमित्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकरत्लार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादि अञ्जनपर्वतोपरिसिद्धायतनद्वारवत् ।
___ “एवं सूरविमाणेवी'त्यादि, एवं-चन्द्रविमानमिव सूर्यविमानमपिवक्तव्यं ग्रहविमानमपि नक्षत्रविमानमपि ताराविमामपि, ज्योतिर्विमानानांप्राय एकरूपत्वात् । ___चंदविमाणेणंभंते!' इत्यादि, चन्द्रविमानभदन्त! कियदायामविष्कम्भेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम्?, भगवानाह-गौतम!षट्पञ्चाशतमेकष्टिभागान्योजनास्यायाविष्कम्भेन, तहेवायामविष्कम्भमानं त्रिगुणं सविशेषंपरिक्षेपेणं, अष्टाविंशतिमेकषष्टिभागान्योजनस्यबाहल्येन प्रज्ञप्तम् ॥ 'सूरविमाणेणंभंते!' इत्यादि प्रश्नसूत्रप्राग्वत्, भगवानाह-गौतम! अष्टचत्वारिंशतमेकषष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेषंपरिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहल्येन ।
'गहविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह-गौ० अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेष परिक्षेपेण क्रोशं बाहल्येन।
'नक्खत्तविमाणेणं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह-गौ० क्रोशमेकमायामविष्कम्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेष परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्र०
'ताराविमाणेणं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह-गौतम! अर्द्धक्रोशमायामविष्कम्भेन तदेवायामविष्कम्भायामपरिमाणंत्रिगुणंसविशेषंपरिक्षेपेण, पञ्चधनुःशतानिबाहल्येन प्रज्ञप्तम्, एवंपरिमाणंच ताराविमानमुत्कृष्टस्थितिकस्यतारदेवस्य सम्बन्धिद्रष्टव्यं, जघन्यस्थिकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org