________________
३९८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२९४ ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ।। 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं विजयदूष्यवर्णनमङ्कुशवर्णनं दामवर्णनं च प्राग्वत् तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्लपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येक मणिपीठिकाः प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकं प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वद यावप्रतिरूपाः ॥ तासि ण मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपाः प्रज्ञप्ताः।
तेणंचेइयथूभा' इत्यादि, ते चैत्यस्तूपाः षोडशयोजनान्यायामविष्कम्भाभ्यांसातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन, तेच शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशा 'अच्छा' इत्यादिप्राग्वत् यावप्रतिरूपाः । तेसिण'मित्यादि, तेषां चैत्यस्तूपानामुपरिअष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः॥ 'तेसि णमित्यादि, तेषांचैत्यस्तूपानांप्रत्येकंप्रत्येकं चतुर्दिशि चतसृषु दिक्षुएकैकस्यादिशिएकैकमणिपीठिकाभावेन चतम्र मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारिं योजनानिबाहल्येन सर्वात्मनामणिमय्योयावप्रतिरूपाः ।। तासिण'मित्यादि, तासांमणिपीठिकानामुपरि एकैकस्यामणिपीठिकायाउपरिएकैकप्रतिमाभावेनचतम्राजिनप्रतिमाजिनोत्सेधप्रमाणमात्राः पञ्चधनुःशतप्रमाणा इत्यर्थः सर्वात्मना रत्नमय्यः संपर्य्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा-पूर्वस्यां दिशि ऋषभा दक्षिणस्यां वर्द्धमानाः अपरस्यां चन्द्राननाः उत्तरस्यां वारिषेणाः । 'तेसिण'मित्यादि, तेषां चैत्यस्तूपानांपुरतः प्रत्येकं प्रत्येकं मणिपीठिकाःप्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छायावप्रतिरूपाः। तासिणमित्यादि, तासांमणिपीठीकानामुपरिप्रत्येकंप्रत्येक चैत्यवृक्षः प्रज्ञप्तः, ते च चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उच्चैस्त्वेनस्कन्धःसएवार्द्धयोजनंविष्कम्भेन यावद्बहुमध्यदेशभागेऊर्द्धविनिर्गता साखा-विडिमा साषड्योजना-न्यूर्द्धमुच्चैस्त्वेन, साऽपिचार्द्धयोजनंविष्कम्भेन, सर्वाग्रेणसातिरेकाण्यष्टौ योजनानि प्रज्ञप्ता । तेसिणंमयमेयारवेवण्णावासेपन्नत्ते' इत्यादिचैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल्लतावर्णनमिति॥ _ तेसिणमित्यादि, तेषां चैत्यवृक्षाणामुपरिअष्टावष्टौ मङ्गलकानिबहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः॥ 'तेसिणमित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्येन सर्वात्मना मणिमय्योऽच्छा यावत्प्रतिरूपा॥'तासि ण'मित्यादि, तासांमणिपिठीकानामुपरिप्रत्येकं २ महेन्द्रध्वजः प्रज्ञप्तः, तेच महेन्द्रध्वजाःषष्टिर्योजनान्यूर्द्धमुच्चैस्त्वेन योजनमुद्वेधेन योजनं विष्कम्भेन वज्रमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावप्रतिरूपाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org