SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३९७ उच्छ्रितानि-लम्बमानानि हेमजालानि - हेममयदामसमूहा यानि गवाक्षजालानि - गवाक्षाकृति - रत्नविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालान - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः - सर्वतो व्याप्ताः, 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गताः अग्रिमभागे मनाग् उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं - बहिर्भागाभिमुखं निसृष्टा अभिनिसृष्टाः 'तिरियं सुसंपरिग्गहिया' इति तिर्यग् भित्तिप्रदेशैः शउष्ठु - अतिशयेन सम्यग् - मनागप्यचलनन परिगृहीताः । 'अहेपन्नगद्धरूवा' अघः- अधस्तनं यत् पन्नगस्यार्द्धंतस्येव रूपं - आकारो येषां ते तथा, अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव वाव्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः, 'किण्हसुत्तवट्टवग्वारियमल्लदामकलावा' इति, कृष्णसूत्रबद्धा वग्घारिया - अवलंबिता माल्यदामकलापाः - पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः, 'तवणिजलंबूसगा' इति दाम्नामग्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बूसगः 'सुवण्णपयरगमंडिया' इति सुवर्णप्रतरेण - सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभञ्जिकासूत्रे 'आमेलगजमलजुगलवट्टियअब्मुन्नयपीणरइयसंठियपओहराओ' इति पीनं- पीवरं रचितं तथाजगत्स्थितिस्वाभाव्याद् रतिदं वा संस्थितं - संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ पीनरतिदसंस्थितौ वा आमेलक - आपीडः शेखरक इत्यर्थः तस्य यमलं - सम श्रेणीकं यद् युगलं- द्वन्द्वं तद्वद् वर्त्तितौबद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ यासां ताः तथा । 'लूसेमाणीओ इवे' ति मुण्यन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वात् । 'तेसि णं दाराणमुष्पि' मित्यादि येषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञप्तानि सर्वरत्नमयानि अच्छानि यावप्रतिरूपकाणि ।। 'तेसि णंदाराण' मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञप्ताः, 'ते ण' मित्यादि, ते मुखमण्डपा एकं योजनशतमायामेन पञ्चाशद् योजनानि विष्कम्भेन सातिरेकाणि षोडश योजनानि ऊर्द्धमुच्चैस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभाया इव वर्णनं तावद्वक्तव्यं यावत्प्रतिरूपा 'तेसि ण' मित्यादि, तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं 'चतुर्दित्रिदिशि' चत [ति] सृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भेन 'तावइयं चेव' अष्टावेव योजनानि प्रवेशेन 'सेया वरकणगधूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्यष्टावष्टौ मङ्गलकानि - स्वस्तिकादीनि, तेषामुल्लोचवर्णनं प्राग्वत्, तेषां च मुखमण्पानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येकं प्रेक्षागृहमण्डपाः प्रज्ञप्ताः तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकमक्षाटकाः प्रज्ञप्ताः 'ते ण 'मित्यादि, ते अक्षपाटका वज्रमयाः 'अच्छा जाव पडिरूवा' इति प्राग्वत् । 'तेसि ण' मित्यादि, तेषामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy