SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२८० मू. (२८०) रिक्खग्गहतारग्गंदीवसमुद्दे जहिच्छसे नाउं। तस्स ससीहिं गुणियं रिक्खग्गहतारगाणं तु॥ वृ. सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापरिमाणज्ञानोपायमाह-अत्रानशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्यवासम्बन्धिभि शशिभिरेकस्य शशिनः परिवारभूतंनक्षत्रपिरमाणंग्रहपरिमाणं तारापरिमाणंचगुणितंसद्यावद्भवति तावत्प्रमाणंतत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणंग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, लवणसमुद्रे च शशिनश्चत्वारस्तत एकस्यशशिनः परिवारभूतानियान्यष्टाविंशतिर्नक्षत्राणि तानिचतुर्भिगुण्यन्ते जातं द्वादशोत्तरं शतं। ___ एतावन्ति लवणसमुद्रे नक्षत्राणि, तथाऽष्टातिहा एकस्य शशिनः परिवारभूतास्ते चतुर्भिर्गुण्यन्तेजातानित्रीणिशतानि द्विपञ्चाशदधिकानि एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः पिरवारभूतानितारागणकोटीकोटीनां षटषष्टिसहस्राणी नवशतानि पञ्चसप्तत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जातानि कोटीकोटीनां द्वे लक्षे सप्तषष्टि सहस्राणि नव शतानि एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः । एवंरूपा च नक्षत्रादीनां लवणसमुद्रे सङ्ख्या प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादिसङ्ख्यापरिमाणं भावनीयम् । मू. (२८१) चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ। पन्नास सहस्साइंतु जोयणाइं अणूणाई॥ वृ.सम्प्रति मनुष्यक्षेत्राबहिर्वर्तिनांचन्द्रसूर्याणांपरस्परमन्तरपरिमाणप्रतिपादनार्थमाह'मनुष्यनगस्य' मानुषोत्तरपर्वस्यबहिश्चन्द्रात्सूर्यस्य सूर्याच्चन्द्रस्यान्तरंभवति अन्यूनानि' परिपूर्णानि योजनानां पञ्चाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् । मू. (२८२) सूरस्स य सूरस्स य ससिणो ससिणो य अंतर होइ। बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं । वृ. इदानीं चन्द्रस्य चन्द्रस्य सूर्सय् सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्पर चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं-लक्षं तथाहि-चन्द्रान्तरिताः सूर्यासूर्यान्तरिताश्चन्द्राबहिर्व्यवस्थिताः, चन्द्रसूर्याणांचपरस्परमन्तरं पञ्चाशद्योजनसहस्राणि ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं न वलयाकारश्रेण्येति । मू. (२८३) सूरतरिया चंदा चंदंतरिया य दिनयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य॥ वृ. सम्प्रति बहिश्चन्द्रसूर्याणां पङ्कयाऽवस्थानमाह-नृलोकादहिः पङ्कयाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकराः 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थ, कथम्भूतास्ते चन्द्रसूर्या ? इत्याह ___ 'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितत्वात्, चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy