________________
प्रतिपत्तिः - ३, दीव०
३७३
'चन्द्रादित्यग्रहतारानक्षत्राणि चन्द्रदातियग्रहतारानक्षत्रविमानानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, तेषां नास्ति गति - न स्वस्मात्स्थानाच्चलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि । मू. (२७७)
दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूराय ॥
बृ. सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह
11911
“एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा होंति । लावणगाय तिगुणिया ससिसूरा धायइसंडे ॥”
चन्द्र उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् जम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, धातकीषण्डे द्वीपे द्वादश चन्द्राश्च द्वादश सूर्याश्च । दो दो जंबूद्दीवे ससिसूरा दुगुणिया भवे लवणे । लावणिया य तिगुणिया ससिसूरा धायईसंडे ॥
मू. (२७८)
वृ. एतदेव भङ्यन्तरेण प्रतिपादयति-शशिनौ सूर्यौ जम्बूद्वीपे द्वौ द्वौ, तावेव द्विगुणिती 'लवणे' लवणसमुद्रे भवतः, चत्वारो लणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थ, द्वयोर्द्वाभ्यां गुणने चतुर्भावात् । पाठान्तरम् - "एवं जंबूद्दीवे दुगुणा लवणे चउग्गुणा होंति' त्ति, 'एवम्' उक्तेन प्रकारेण एकैकौ चन्द्रसूर्यौ जम्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवमसमुद्रे तावेवैकैकौ सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारः सूर्या लवणसमुद्रे भवन्तीति भावः, 'लावणिकाः' लवणसमुद्रभवाः शशिसर्यास्त्रगुणिता धातकीषण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीषण्डे द्वीपे भवन्तीत्यर्थः ।
पू. (२७९)
धायइसंडप्पभिई उद्दिट्ठतिगुणिया भवे चंदा । आइल्लचंदसहिया अनंतरानंतरे खेत्ते ॥
वृ. सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्यापरिज्ञानायकरणमाह - धातकीषण्डः प्रभृति - आदिर्येषां ते धातकीषण्डप्रभृतयस्तेषु धतकीषण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वादशादयः उपलक्षणमेतत् सूर्या वा ते 'त्रिगुणिताः' त्रिगुणीकृताः सन्तः 'आइल्लचंदसहिय'त्ति उद्दिष्टचन्द्रयुक्ताद्वीपात्समुद्राद्वा प्राग् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्तैरादिमचन्द्रैः, उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरेऽनन्तरे कालोदादौ भवन्ति । तत्र धातकीषण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षट्त्रिंशत्, आदिम- चन्द्राः षट्, तद्यथा - द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रैः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एष एव विधि सूर्याणामपि तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदे समुद्र द्वाचत्वारिंशच्चन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते जाताः षड्विंशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा - द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीषण्डे, एतैरादिमचन्द्रैः सहितं षड्विंशं शतं चतुश्चत्वारिंशं शतं जातं, एतावन्तः पुष्करव० चन्द्रा एतावन्त एवच सूर्या, एवं सर्वेष्वपि द्वीपसमुद्रेष्वेतत्करणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या, सूर्यसङ्ख्याऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org