SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/१७२ वृ. तथा चाह - इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनी सदाऽनावार्यस्वभावत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वाषष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात् । ३७२ एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न स्वमनीषिकया । मू. (२७३) पन्नरसइभागेण य चंदं पन्नरसमेव तं वरइ । पन्रसइभागेण य पुणोवि तं चेव तिक्क मइ ॥ बृ. तथा च तद्ग्रन्थः- “ चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपह्रियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत" इति । एवं च सति यत्समवायाङ्गसूत्रम् - "सुक्क पक्खस्स दिवसे दिवसे बावट्ठि बावट्ठि भागे परिवड्डइ" इति, तदप्येवमेव व्याख्येयं संपदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, अन्यथा महदाशातनाप्रसक्तेः, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद्यस्मात्कारणा-च्चन्द्रो द्वाषष्टिद्वाषष्टिभागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धे, कालेन - कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् 'प्रक्षपयति' एतदेव व्याचष्टे - कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्रं' चन्द्रविमानं पञ्चदशमेव बागं 'वणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमात्मीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? - कृष्णपक्षे प्रतिपद आरम्भ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । यू. (२७४) एवं वड्डइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोहा वा तेननुभावेण चंदस्स ॥ वृ. तथा चाह - एवं राहुविमाने प्रतिदिवसं क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः, एवं राहुविमाने प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव ‘अनुभावेन' कारणेनैकः पक्षः 'कालः' कृष्णो भवित यत्र चन्द्रस्य परिहानि प्रतिभासते, एकस्तु ‘ज्योत्स्नः' शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिमासः । मू. (२७५) अंतो मणुस्सखेत्ते हवंति चारोवगा य उववन्ना । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥ वृ. ‘अन्तः’ मध्ये ‘मनुष्यक्षेत्रे’ मनुष्यक्षेत्रस्य पञ्चविधा ज्योतिष्कास्तद्यथा - चन्द्राः सूर्या ग्रहगणाः चशब्दान्नक्षत्राणि तारकाश्च भवन्ति 'चारोपगाः' चारयुक्ताः । मू. (२७६) तेण परं जे सेसा चंदाइच्चगहतारनक्खत्ता । नत्थि गई नवि चारो अवट्ठिया ते मुणेयव्वा ॥ वृ. 'तेने 'ति प्राकृतत्वात्पञ्चम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं यानि शेषाणि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy