________________
प्रतिपत्तिः - ३, दीव०
३७१
यथा न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति । मू. (२६८) तेसिं पविसंताणं तावक्खेत्तं तु वड्ढए नियमा ।
तेणेव कमेण पुणो परिहायइ निक्खमंताणं ॥
वृ. तेषां - सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवसं क्रमेण नियमादायामतो वर्द्धते, येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाद्बहिर्निष्क्रमतां परिहीयते, तथाहि - सर्वबाह्यमण्डले चारं चरतां सूर्याणां चन्द्रमसां च प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्टयधिकषटत्रिंशच्छ-तप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते ।
चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षडविंशतिर्भागा सप्तविंशतितमस्य च भागस्यैकः सप्तभागः, एवं च प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरमण्डलाद्बहिर्निष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णसामीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति । पू. (२६९) तेसिं कलंबुयापुप्फसंठिया होइ तावखेत्तपहा ।
अंतो य संकुया बाहि वित्थडा चंदसूरगमा ॥
वृ. 'तेषां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्पं - नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे - अन्तः - मेरुदिशि सङ्कुचिता बहिः - लवणदिशि विस्तृताः, एतच्चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भावितमिति ततोऽवधार्यम् । पू. (२७०) केणं वड्डति चंदो परिहाणी केण होइ चंदस्स । कालो वा जोहो वा केणऽनुभावेण चंदस्स ॥
वृ. सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति- केन कारणेन शुक्लपक्षे वर्द्धते ? केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति ? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैकः पक्षः कृष्णो भवति एकः ‘ज्योत्स्नः' शुक्लः ? इति, एकमुक्ते भगवानाह - इह द्विविधो राहुस्तद्यथापर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमाने चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्यते । मू. (२७१) किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरइ ॥
वृ. यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याच्चन्द्रेण सह 'नित्यं' सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैरप्राप्तं सत् 'चन्द्रस्य' चन्द्रविमानस्याधस्ताच्चरति, तच्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति । मू. (२७२) बावट्ठि बावट्ठि दिवसे दिवसे उ सुक्क पक्खस्स । जं परिवड्डइ चंदो खवेइ त चेव कालेणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org