SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२६६ __मंडलसंकमणं पुण अभितरबाहिरं तिरिए। वृ. रजनिकरदिनकराणां' चन्द्रादित्यानामूर्द्धं वाऽधो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषु सङक्रमणंभवति, किंविशिष्टमित्याह-'साभ्यन्तरबाह्यम्' अभ्यन्तरंचबाह्यंचअभ्यन्तरबाासह अभ्यन्तरबाह्यं यस्य येन वातत् साभ्यन्तरबाा, एतदुक्तं भवति? -सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङक्रमणंयावत्सर्वबाह्यमण्डलं, सर्वबाह्याच्च मण्डलादर्वाग्मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति। मू. (२६७) रयणियरदिनयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं॥ वृ. 'रजनिकरदिनकराणां' चन्द्रादित्यानां नक्षत्राणां महाग्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कर्माणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्र कालो भावो भवश्व, उक्तञ्च॥१॥ "उदयक्खयखओवसमोवसमा जंच कम्मुणो भणिया। दव्वं खेक्तं कालं भावं भवंच संपप्प ॥" शुभवेद्यानांच कर्मणांप्रायःशुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुः,अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य विपाकंप्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतःसुखमुपजनयन्ति, अतएवमहीयांसः परविवेकिनःस्वल्पमपि प्रयोजनं शुभतिथिनक्षत्रावारभंते न तु यथा कथञ्चन । अत एव जिनानामपि भगवतामाज्ञा प्रव्राजनादिकमधिकृत्यैवमष्टि यथा शुभक्षेत्रे शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके॥१॥ "एसा जिणाण आणा खेत्ताईया य कम्मणो भणिया। उदयाइकारणं जंतम्हा सव्वत्थ जइयव्वं ॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञा यथा शुभक्षेत्रे सुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूदिौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं नान्यथा, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्यकदाचिदशुभवेद्यानिकर्माणि विपाकंगत्वोदयमासादयेयुः, तदुदयेच गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तुप्राप्य जनानां शुभकर्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्रशुभक्षेत्रादौ यतितव्यं, येतु भगवन्तोऽतिशयमन्तस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छन्तिततोनशुभतिथिमुहूर्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं, तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिदधति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy