SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० ३५९ एकचत्वारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११०९४३, एतेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम्, उक्तञ्च॥१॥ “पणतीसा सत्तसया सत्तावीसा सहस्स दस लक्खा। धायइसंडे दारंतरंतु अवरंच कोसतियं ॥" 'धायइसंडस्सणं भंते! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि 'सेकेणतुणं भंते!' इत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-धातकीषण्डो द्वीपोधातकीखण्डो द्वीपः ? इति, भगवानाह-धातकीपण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा बहवो धातकीवनषण्डा बहूनि घातकीवनानि, वनषण्डयोः प्रतिविशेषः प्रागेवोक्तः, 'निचंकुसुमिया' इत्यादि प्राग्वत्, 'धायइमहाधायइरुक्खेसु एत्य'मित्यादि पूर्वार्द्ध उत्तरकुरुषु नीलवद्गिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमा॰ उत्तरकुरुषु नीलवद्गिरिसमीपे महाधातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदितव्यौ, तयोरत्रधातकीषण्डे द्वीपेयथाक्रमं सुदर्शनप्रियदर्शनौ द्वौ देवीयावत्पल्योपमस्थितिकोपरिवसतः, ततोधातकीषण्डोपलक्षितो द्वीपोधातकीषण्डद्वीपः, तथा चाह-से एएणडेण'मित्यादि गतार्थं सम्प्रति चन्द्रादिवक्तव्यतामाह-'धायइसंडेणं भंते ! दीवे कति चंदा पभासिंसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहमू. (२२५) चउवीसं ससिरविणो नक्खत्त सता य तिनि छत्तीसा। एगंच गहसहस्सं छप्पन्नं धायईसंडे। मू. (२२६) अटेव सयसहस्सा तिन्नि सहस्साइंसत्त य सयाई। धायइसंडे दीवे तारागण कोडिकोडीणं ॥ मू. (२२७) सोभेसुवा३॥ वृ. गौतम! धातकीषण्डे द्वादश चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानिषट्त्रिंशानियोगंचन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युअन्ति योक्ष्यन्ति, तत्र त्रीणि षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेनक्षत्राणां भावात्, तथा एकं षडपञ्चाशदधिकं महाग्रहसहनं चारं चरितवन्तश्चरन्ति चरिष्यन्ति। एकैकस्यशशिनः परिवारेऽष्टाशीतेर्महाग्रहामांभावात् अष्टौ शतसहस्राणित्रीणि सहस्राणि सप्त शतानि तारागणकोटीकोटीनां शोभितवन्तःशोभन्ते शोभयिष्यन्ते। एतदपि एकशशिनः तारापरिमाणंद्वादशभिर्गुणयित्वा भावनीयं, उक्तंच॥१॥ “बारस चंदा सूरा नक्खत्तसया य तिन्निछत्तीसा। एगंच गहसहस्सं छप्पन छप्पनंधायईसंडे ॥ ॥२॥ अटेव सयसहस्सा तिन्नि सहस्साय सत्तय सया उ। धायइसंडे दीवे तारागणकोडिकोडीओ॥ सम्प्रति कालोदसमुद्रवक्तव्यतामाहमू. (२२८) धायइसंडं णं दीवं कालोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy