________________
३५८
वा ३ ?, गोयमा ! बारस चंदा पभासिंसु वा ३, एवं
वृ. 'लवणसमुद्द' मित्यादि, लवणसमुद्रं धातकीष्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्य तिष्ठति ॥ 'धायइसंडे णं दीवे किं समचक्कवालसंठिए' इति सूत्रं लवणसमुद्रवद्भावनीयम् ।
'धायइसंडे ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेन, एकचत्वारिंशत् योजनशतसहस्राणि दश सहस्राणि नव च एकषष्टानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, उक्तञ्च
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/२२४
॥३॥ " एयालीसं लक्खा दस य सहस्साणि जोयणाणं तु । नवय सया एगट्ठा किंचूणा परिरओ तस्स ।।"
'से ण' मित्यादि, स धातकीखण्डो द्वीप एकया पद्मवरवेदिकया अष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति सामथ्यार्दगम्यते, एकेन वनषण्डेन पद्मवरवेदिकाबहिर्भूतेन सर्वतः समन्तात्संपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायइसंडस्स ण' मित्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गौतम! चत्वारि द्वारामि प्रज्ञप्तानि, तद्यथा - विजयं वैजयन्तं जयन्तमपराजितं च ।
'कहिणं भंते!' इत्यादि, कव भदन्त ! धातकीषण्डस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह - गौतम ! धातकीषण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानद्या उपरि 'अत्र' एतस्मिन्नन्तरे धातकीषण्डस्य द्वीपस्य विजयनाम द्वारं प्रज्ञप्तं, तच्च जम्बूद्वीपविजयद्वारवदविशेषेण वेदितव्यं, नवरमत्र राजधानी अन्यस्मिन् धातकीषण्डे द्वीपे वक्तव्या । 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! धातकीषण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरोऽत्र धातकीषण्डस्य द्वीपस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपवैजयन्तद्वारवदविशेषेण वक्तव्यं, नवरमत्रापि राजधानी अन्यस्मिन् धातकीषण्डद्वीपे ।
'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थं भ० -! धातकीषण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वतः शीतोदाया महानद्या उपर्यत्र धातकीषण्डस्य द्वीपस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपजयन्तद्वारद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीषण्डे द्वीपे ।
'कहिणंभंते!' इत्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! धातकीषण्डद्वीपत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्य दक्षिणतोऽत्र धातकीषण्डस्य द्वीपस्वापराजितं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवद्वक्त्यं, नवरं राजधानी अन्यस्मिन् धातकीषण्डे द्वीपे । 'धायइसंडस्स णं भंते!' इत्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य द्वारस्य २ च परस्परमेतदन्तरं 'कियत्' किंप्रमाणम् ‘अबाधया’ अन्तरित्वा व्याघातेन प्रज्ञप्तम् ?, भगवानाह - गौतम! दश योजनशतसहस्राणि सप्तविंशतिर्योजनसहस्राणि सप्त शतानि पञ्चत्रिंशानि द्वारस्य २ परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि - एकैकस्य द्वारस्य सद्वारशाखस्य जम्बूद्वीपद्वारस्येव पृथुत्वं सार्द्धानि चत्वारि योजनानि ततश्चतुर्णा द्वाराणामेकत्र पृथुत्वपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्तरोक्तात्परिरयमानात् ४११०९६१ शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
,