________________
प्रतिपत्तिः-१,
'तेसिणं भंते ! जीवाणं कइ सरीरगा' ? इत्यादिद्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुमन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह'सेत्त'मित्यादि । उक्ता अकायिकाः, सम्प्रति वनस्पतिकायिकनाह
मू. (१९) से किंतंवणस्सइकाइया?, २ दुविहा पन्नत्ता, तंजहा-सुहुमवणस्सइकाइया य बायरवणस्सइकाइयाय।
वृ. अथ के ते वनस्पतिकायिकाः ?, सूरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पतिकायिकाश्त, चशब्दी स्वगतानेकभेदसूचकौ ।
मू. (२०) से किं तं समहुमवणस्सइकाइया ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजतगायतहेवणवरं अनित्थंत्य (संठाण०) संठिया, दुगतिया दुआगतियाअपरित्ताअणंता, अवसेसं जहा पुढविक्कइयाणं, सेतं सुहुमवणस्सइकाइया॥
वृ. 'से किंत'मित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिकाः?, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं भंते ! कति सरीरगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवद्भावनीयं, नवरं संस्थानद्वारे सरीरगा अनित्थंथसंठाणसंठिया पन्नत्ता' इति, इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम्, अनियताकारमित्यर्थः ।
तच्च तत्संस्थानं तेन संस्थितानि-अनियतसंस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपयन्ते 'अपरित्ताअनंता पन्नत्ता' इति वक्तव्यम्, 'अपरीत्ता' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ताः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! 'सेत्त'मित्यादि उपसंहारवाक्यम्॥
मू. (२१) सेकिंतंबायरवणस्सइकाइया?,२ दुविहापन्नत्ता, तंजहा-पत्तेयसरीरबायरवणस्सतिकाइयाय साधारणसरीरबायरवणस्सइकाइया य।
वृ. 'से किंत'मित्यादि, अथ के तेबादरवनस्पतिकायिकाः?, सूरिराह-बादरवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-प्रत्येक शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दौ पूर्ववत् ।
मू. (२२) से किंतंपत्तेयसरीरबादरवणस्सतिकाइया?, २ दुवालसविहा पन्नत्तातंजहा
वृ. 'से किंगत'मित्यादि, अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः?, सूरिराहप्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञप्ताः, तद्यथामू. (२३) रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव।
तणवलयहरितओसहिजल-रुहकुहणा य बोद्धव्वा॥ मू. (२४) से किंतंरुक्खा?,२ दुविहा पन्नत्ता, तंजहा-एगडिया य बहुबीया यासे किं तंएगट्ठिया?, २ अनेगविहा पन्नता, तंजहा-निबंबजंबुजाव पुण्णागणागरुक्खे सीवण्णितधा असोगे य, जे यावण्णे तहप्पगारा, एतेसि णं मूलावि असंखेजजीवायि, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाइं अणेगजीवाइं फला एगट्ठिया, सेत्तं एगट्ठिया।
से किं तं बहुबीया ?,२ अणेगविधा पन्नत्ता, तंजहा-अत्थियतंदुयउंबरकविढे 913
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org