________________
प्रतिपत्तिः-३, दीव० समुद्रवेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रयाकियन्तियोजनानि यावदुत्सेधपरिवृद्धि?, भगवानाह-गौतम ! 'लवणस्सणं समुदस्से'त्यादि, इह निश्चयतो लवणसमुद्रस्यजम्बूद्वीपवेदिकातोलवणसमुद्रवेदिकातश्चसमतले भूभागेप्रथमतो जलवृद्धिरहुलसङ्ख्येयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धया जलवृद्धि क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दशयोजनसहमविस्तारे षोडश योजनसहस्राणि ।
इहतुषोडशयोजनसहस्रप्रमाणायाः शिखायाः शिरसिउभयोश्चवेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यते-लवणस्यसमुद्रस्योभयतो जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्च पञ्चनवतिं प्रदेशान् गत्वा षोडश प्रदेशा उत्सेधपरिवृद्धि प्रज्ञप्ता, पञ्चनवतिं वालाग्राणि गत्वा षोडश वालाग्राणि, एवंयावत् पञ्चनवति योजनसहस्राणि गत्वा षोडशयोजनसहस्राणि, अत्रेयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे षोडश योजनसहस्राणि जलोत्सेधस्ततः पञ्चनवतियोजनातिक्रमेक उत्सेधः?,राशित्रयस्थापना-१५०००।१६०००।९५।अत्रादिमधयो राश्योःशून्यत्रिकस्यापर्वर्तना ९५।१६।९५, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येनपञ्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एषामादिराशिना पश्चनवतिलक्षणेन भागे हते लब्धानि षोडश योजनानि, उक्तञ्च॥१॥
"पंचाणउइसहस्से गंतूणंजोयणाणि उभओवि। उस्सेहेणं लवणो सोलससाहस्सिओ मणिओ॥ पंचाणऊई लवणे गंतूणंजोयणाणि उभओवि।
उस्सेहेणं लवणो सोलस किल जोयणे होइ। तत्रयदिपञ्चनवतियोजनपर्यन्तेषोडशयोजनावगाहस्ततोऽल्लभ्यतेपञ्चनवतिगव्यतपर्यन्ते षोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश धनूंषीत्यादि।
सम्प्रति गोतीर्थप्रतिपादनार्थमाह
मू. (२२१) लवणस्सणंभंते! समुदस्स केमहालएगोतित्थ प०गो० उमओपासिपंचानउति २ जोयणसहस्साइंगोतित्थं प० ॥लवणस्सणंभंते! समुहस्स केमहालए गोतित्यविरहिते खेते प०गो० दस जोयणसहस्साइं गोतित्थविरहिते खेते पन्नते ॥ लवणस्स गंमते! समुहस उदगमाले पन्०गो० दस जोयणसहस्साइं उदगमाले पन्नत्ते॥
पृ. 'लवणस्सणं भंते !' इत्यादि, लवणस्स भदन्त! समुद्रस्य किंमहत्' किंप्रमाणमहत्वं गोतीर्थ प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थक्रमेण नीचो नीचतरः प्रवेशमार्गः, भगवानाह-गौतम ! लवणस्ससमुद्रस्योभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थपञ्चनवतिं योजनसहनाणियावद्गोतीर्थंप्रज्ञप्तम्, उक्तञ्च-“पंचाणउइसहस्सेगोतित्थं उभयतोविलवणस्सा" इति
'लवणस्स णं भंते !' इत्यादि, लवणस्स भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्वं गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! लवणस्य समुद्रस्य दश योजनसहस्राणि 1923]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org