________________
३५२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२१९ 'से केणडेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णा पूर्णप्रमाणाः ? इत्यादि प्राग्वत्, भगवानाह-गौतम! बाह्येषुसमुद्रेषुबहव उदकयोनिकाजीवाः पुद्गलाश्चोदकतया 'अपक्रामन्ति' गच्छन्ति 'व्युकामन्ति' उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते' चयमुपगच्छन्ति ‘उपचीयन्ते उपचयमायान्ति, एतच्च पुद्गलान्प्रतिद्रष्टव्यं, पुद्गलानामेव चयोपचयार्थप्रसिद्धेः, से एएणतुण मित्याधुपसंहारवाक्यं प्रतीतं ।
सम्प्रत्युद्वेधपरिवृद्धिं चिचिन्तयिषुरिदमाह
मू. (२२०) लवणेणंभंते! समुद्दे केवतियं उव्वेहपरिवुडीते पन्नत्ते?, गोयमा! लवणस्स णं समुदस्स उभओपासिं पंचानउति २ पदेसे गंता पदेसं उव्वेहपरिवुड्डीए पन्नत्ते, पंचानउति २ वालग्गाइंगंता वालग्गं उव्वेहपरिवुड्डीएपन्नत्ते, प० लिक्खाओ गंता लिक्खा उव्वेहपरि० पंचानउइ जवाओ जवमझे अंगुलविहत्थिरयणीकुच्छी धणु [उव्वेहपरिवुट्टीए] गाउयजोयणजोयणसतजोयणसहस्साइं गंता जोयणसहस्सं उव्वेहपरिवुड्डीए।
लवणेणंभंते! समुद्दे केवतियंउस्सेहपरिवुडीएप० गो० लवणस्सणंसमुदस्स उभओपासिं पंचानउतिं पदेसे गंता सोलसपएसे उस्सेहपरिवुड्डीए प० गो० लवणस्स णं समुद्दस्स एएणेव कमेणंजाव पंचानउति २ जोयणसहस्साइंगंता सोलस जोयणसहस्साइं उस्सेधपरिवुडिए प०॥
वृ. 'लवणेणं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः ‘कियत्' कियन्ति योजनानि यावद् उद्वेधपरिवृद्वया प्रज्ञप्तः?, किमुक्तंभवति?-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्योभयतोऽपिलवणसमुद्रस्य कियन्ति योजनानि यावत्मात्रयामात्रया उद्वेधपरिवृद्धिरिति, भगवानाह-गौतम ! लवणपुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थः पञ्चनवतिप्रदेशान् गत्वा प्रदेश उद्वेधपरिवृद्धया प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपो द्रष्टव्यः, पञ्चनवतिंवालाग्राणिगत्वैकंवालानमुद्वेधपरिवृद्धयाप्रज्ञप्तं, एवं लिक्षायवमध्याङ्गुलवितस्तिरनिकुक्षिधनुर्गव्यूतयोजनयोजनशतसूत्राण्यपि भावनीयानि, पञ्चनवतिंयोजनसहनाणिगत्वा योजनसहस्रमुद्वेधपरिवृद्ध्या प्रज्ञप्तं, वैराशिकभावना चैवं योजनादिषु द्रष्टव्या।
इहोभयतोऽपि पञ्चनवतियोजनसहनपर्यन्ते योजनसहस्रमवगाहेन दृष्टं ततस्त्रैराशिककवितारः, यदि पञ्चनवतिसहस्रपर्यन्ते योजनसहनमवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोऽवगाहः?, राशित्रयस्थापना-९५०००।१०००।९५ अत्रादिमध्ययोराश्योःशुन्यत्रयस्यापवर्त्तना ९५।१।९५, ततो मध्यस्य राशेरेकरूपस्य अन्त्येन पञ्चनवतिलक्षणेन राशिना गुणनात् जाता पञ्चनवति, तत्राद्येन राशिनां पञ्चनवतिलक्षमेन विभज्यते लब्धमेकं योजनं, उक्तञ्च॥१॥ “पंचानउइसहस्से गंतूणं जोयणाणि उभओवि ।
जोयणसहस्समेगंलवणे ओगाहओ होइ॥ ॥१॥ पंचाणउईण दगे (लवणे) गंतूणंजोयणाणि उभओवि ।
___ जोयणमेमं लवणे ओगाहेणं मुणेयव्वा ॥ पञ्चनवतियोजनपर्यन्ते च यद्येकं योजनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एक गव्यूतं पञ्चनवतिधनुःपर्यन्ते एकं धनुरित्यादि लब्धम्।
सम्प्रत्युत्सेधमधिकृत्याह- 'लवणेणंभंते! समुद्दे' इत्यादि, लवणो भदन्त! समुद्रः ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृद्धया प्रज्ञप्तः ?, एतदुक्तं भवति-जम्बूद्वीपवेदिकान्ताल्लवण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org