________________
३५०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २१७
सगाणं २ दीवाणं पुरत्थिमेणं सयंभुरमणोदगं समुदं पुरत्थिमेणं असंखेज्जाइं जोयण० तं चेव, एवं सूराणवि, सयंभूरमणस्स पच्चत्थिमिल्लातो वेदियंताओ रायहाणीओसकाणं २ दीवाणं पञ्चत्थिमिल्लाणं सयंभुरमणोदं समुदं असंखेज्जा ० सेसं तं चेव ।
कहि णं भंते ! सयंभूरमणसमुद्दकाणं चंदाणं०, सयंभुरमणस्स समुद्दस्स पुरत्थिमिल्लाओ वेतियंतातो सयंभुरमणं समुदं पञ्च्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता, सेसं तं चैव । एवं सूराणवि । सयंभुरमणस्स पच्चत्थिमिल्लाओ सयंभुरमणोदं समुदं पुरत्थिमेणं बास जोयणसहस्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभुरमणं समुद्दे असंखेज्जाइं जोयणसहस्साई ओगाहित्ता, एत्थ णं सयंभुरमण जाव सूरादेवा ।
वृ. 'कहि णं भंते!' इत्यादि, क्व भदन्त ! देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! देवद्वीपस्य पूर्वस्माद्वेदिकान्ताद् देवोदं समुद्रं द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ता इत्यादि प्राग्वत्, राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमसङ्घयेयानि योजनसहनण्यवगाह्यात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ।
'कहि णं भंते !' इत्यादि, कव भदन्त ! देवद्वीपगानां सूर्याणां सूर्यद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? भगवानाह - गौतम ! देव द्वीपस्य देवद्वीपमसङ्घयेयानि योजनसहस्राण्यवगाह्येत्यादि ।
'कहिणंभंते!' इत्यादि, क्व भदन्त ! देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ? गौतम देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्ताद्देवोदकं समुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसङ्घयेयानि योजनसहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्रं पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसङ्घयेयानि योजनसहस्राण्यवगाह्य, एवं नागयक्षभूतस्वयम्भूरमणद्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां तु स्वस्वसमुद्र एव, राजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्वद्वीपे, समुद्रगतानां स्वस्वसमुद्रे, आह च मूलटीकाकारोऽपि -
"एवं शेषद्वीपगतचन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वपरतोऽसङ्घयेयान् द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सद्दशनाम्नि द्वीपे भवन्ति, अन्त्यानिमान् पञ्च द्वीपान् मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान्, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसङ्ख्येयानि योजनसहस्राण्यवगाह्य भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्व्याख्यानुसारेण सर्वेऽप्यनुगतन्तव्या न मोग्धव्यमिति ।
मू. (२१८) अत्थि णं भंते! लवणसमुद्दे वेलंधराति वा नागराया खन्नाति वा अग्घाति वा सिंहाति वा विजाती वा हासवट्टीति ?, हंता अत्थि ।
जहा णं भंते! लवमसमुद्दे अत्थि वेलंधराति वा नागराया अग्धा सिंहा विजाती वा हासवट्टीति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International