SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३४७ तयोः, सूत्रे द्वित्वेऽपि बहुवचं प्राकृतत्वात्, शेषं सुगमं, भगवानाह - गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्रण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपी नाम द्वीपो वक्तव्यौ, इत्यादि जम्बूद्वीपगतचन्द्रसत्कान्द्रद्वीपवन्नि रवशेषं वक्तव्यं, नवरमत्र राजधान्यौ स्वकीययोर्द्वीपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य वेदितव्ये । एवमभ्यन्तरलावणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यौ, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजसहस्राण्यवगाह्येति । 'कहि णं भंते!' इत्यादि, कव भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपी नाम द्वीपौ प्रज्ञप्तौ ?, बाह्यलावणिकौ नाम लवणसमुद्रे शखाया बहिश्चारिणौ चन्द्रौ, भगवानाह - गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादर्वाग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपी नाम द्वीपी प्रज्ञप्तौ तौ च धातकीषण्डद्वीपान्तेन - धातकीषण्डद्वीपदिशि अद्धैकोननवतियोजनानि चत्वारिंशतं च पञ्चनवतिभागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ क्रोशी, शेषवक्तव्यताऽभ्यन्तरलावणिकचन्द्रद्वीपवद्वक्तव्या, अत्रापि च राजधान्यौ स्वकीययोद्वीपयोः पूर्वस्यां तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बाह्यलवणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्ताल्लवणसमुद्रं पूर्वस्यां दिशि द्वादश योजनसहस्रण्यवगाह्येति वक्तव्यं, राजधान्यावपि स्वकीययोद्वपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति । मू. (२११) कहि णं भंते! धायतिसंडदीवगाणं चंदाणं चंददीवा पन्नत्ता ?, गोयमा ! धायतिसंडस्स दीवस्स पुरत्थिमिल्लाओ वेदियंताओ कालोयं णं समुद्दं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं धायतिसंडदीवाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता । सव्वतो समंता दोकोसा ऊसिता जलंताओ बारस जोयणसहस्साइं तहेव विक्खंभपरिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्टो तहेव रायहाणीओ, सकामं दीवाणं पुरत्थिमेणं अन्नंभि धायतिसंडे दीवे सेसं तं चेव, एवं सूरदिवावि । नवरं धायइसंडस्स दीवस्स पञ्च्चत्थिमिल्लातो वेदियंताओ कालोयं णं समुद्द बारस जोयण० तहेव सव्वं जाव रायहाणीओसूराणं दीवाणं पञ्चत्थिमेणं अण्णंमि धायइसंडे दीवे सव्वं तहेव ॥ वृ. सम्प्रति धातकीषण्डगतचन्द्रादित्यद्वीपवक्तव्यतामभिधित्सुराह - 'कहि णं भंते !' इत्यादि, कव भदन्त ! धातकीषण्डद्वीपगतानां चन्द्राणां तत्र द्वादश चन्दा इति बहुवचनं, चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! धातकीषण्डस्य द्वीपस्य पूर्वस्यां दशि कालोदं समुद्रं द्वादश योजनसहस्राण्यवगाह्यात्र धातकीषण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवद्वक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूर्द्ध द्वौ क्रोशी उच्छ्रिती इति तत्र पानीयस्य स्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयाना द्वीपानां पूर्वतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीषण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह्यविजयाराजधानीवद्वक्तव्याः, एवं धातकीषण्डगतसूर्यस्कसूर्यद्वीपा अपि वक्तव्याः, नवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy