________________
प्रतिपत्तिः - 9,
मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवी - कायिकत्वेन वेदितव्याः ।
'ते समासतो' इत्यादि, ते बादरपृथिवीकायिकाः 'समासतः' सङक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा - पर्याप्तका अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि वर्मादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्युपदेष्टुं किं कारणमिति - चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासुसतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्छ्वासपर्याप्तया अपर्याप्ता एव म्रियन्ते, ततो न स्पष्टो वर्णादिविभाग इत्यसंप्राप्ता इत्युक्तम्, अन्ये तु व्याचक्षते - सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्तया संजातमिति ।
३१
'तत्थण' मित्यादि, तत्र ये ते पर्याप्तकाः - परिसमाप्तसमस्तस्वयोग्यपर्याप्तयस्ते वर्णादिशेनवर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेिशेन सहस्राग्रशः- सहस्रसङ्ख्यया विधानानिभेदाः, तद्यथा-वर्णा कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदाद्दौ रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टौ, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि - भ्रमरकोकिल कज्जलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम त्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलादिष्वपि० तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो घूसरकर्बुरत्वादयोऽनेकसङ्ख्याभेदाः, एवं गन्धादीनामपि गन्धादनः समायोगात्, ततो भवन्ति वर्णाद्यादेशैः सहस्राग्रशो भेदाः
संखिज्जाई जोणिप्पमुहसयसहस्साइं ' 'ति सङ्घयेयानि योजानिमुखाणि - योनिद्वाराणि शतसहस्त्राणि, तथाहि–एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनि पृथिवीकायिकानां, सा पुनस्त्रिधासचित्ताऽचित्ता मिश्रा च पुनरेकैका त्रिधा - शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्घयातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्घयेयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति, तानिच सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्तिउत्पद्यन्ते कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असङ्घयेयाः- सङ्घयातीता अपर्याप्तकाः ।
'एएसि णं भंते ! जीवाण' मित्यादिना शरीरावगाहनादिद्वारकलापचिन्तां करोति, साच पूर्ववत्, तथा चाह - 'एवं जो चेव सुहुमपुढविकाइयाणं गमो सो चेव भाणियव्वो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतस्रोलेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात्, तथाहि - व्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्च्छयाऽऽत्मीयरत्नकुण्डलादावप्युत्पद्यन्ते, ते च तेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अग्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लेसे उववज्जइ इति वचनात् ।
ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतनो वक्तव्याः, आहारो नियमात् षड्दिशि, बादराणां लोकमध्य एवोपपातभावात्, उपपातो देवेभ्योऽपि, बादरेषु तदुत्पादविधानात्, स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, देवेभ्योऽप्युत्पादात् त्र्यागतयो, द्विगतयः पूर्ववत्, एतेऽपि च 'परोत्ता' प्रत्येकशरीरिणोऽसङ्घयेयाः प्रज्ञप्ताः हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org