SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१६ पंडुमत्तिया पणगमत्तिया, सेत्तं सण्हबायरपुढविकाइया। -से किं तं खरबायरपुढविक्कइया ?, २ अनेगविहा पन्नत्ता, तंजहा॥१॥ पुढवी य सक्करा वालुया य उवले सिला यलोणूसे। तंबा य तउय सीसय रुप्प सुवण्णेय वइरे य॥ ॥२॥ हरियाले हिंगुलए मनोसिला सासगंजण पवाले । अब्भपडलब्भवालुय बायरकाये मणिविहाणा ।। ॥३॥ गोमेज्जए यरुयए अंके फलिहे य लोहियक्खे य। मरगयमसारगल्ले भुयमोयगइंदनीले य॥ ॥४॥ चंदनगेरुयहंसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य॥ जे यावण्णे तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य, तत्थ णंजे ते अपज्जत्तगा तेणं असंपन्ना, तत्थ णंजेते पञ्जत्तगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणंफासाएसेणंसहस्सग्गसो विहाणाईसंखिज्जाइजोणिप्पमुहसयसहस्साइंपज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगोतत्यनियमा असंखेज्जा" इति, अस्यव्याख्या-कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपिवाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदात्मकाजीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् । ‘से किंत'मित्यादि॥अथ के तेखरबादरपृथिवीकायिकाः?, सूरिराह-खरबादरपृथिवीकायिकानिकविघाःप्रज्ञप्ताः, चत्वारिंशभेदामुख्यतः प्रज्ञप्ता इत्यर्थः, तानेवचत्वारिंशन्द्रेदानाह, तंजहा--'पुढवी' त्यादिगाथाचतुष्टयम् । पृथिवीति ‘भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्यादिरूपा १, चशब्द उत्तरापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपलः-टाधुपकरणपरिकर्मणायोग्यः पाषाणः ४, शिलाघटनयोग्या देवकुलपीठाधुपयोगी महान् पाषाणविशेषः ५, लवणंसामुद्रादि ६, ऊषो यद्वशादूषरं क्षेत्रम् ७, अयस्तासूत्रपुसीसकरूप्यसुवर्णानि प्रतीतानि १३, वज्रो-हीरकः १४, हरितालहिङ्गुलमनःशिलाः प्रतीताः १७, सासगं-पारदः १८, अञ्जनंसौवीराजनादि १९,प्रवालं-विद्रुमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटमिश्रा वालुका २२, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति–'गोमेज्जए य' इत्यादि, गोमेजकः २६, 'चः' समुच्चये, रुचकः २४ अङ्कः २५ स्फटिकः२६ 'चः' पूर्ववत्, लोहिताक्षः २७मरकतः २८मसारगल्लः २९ भुजमोचकः ३० इन्द्रनीलश्च ३१ चन्दन : ३२ गैरिकः ३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभः३७ वैडूर्य ३८जलकान्तः३९ सूर्यकान्तश्च४० तदेवमाद्ययागाथयापृथिव्यादयश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टौहरितालादयःतृतीयगाथयागोमेज्जकादयो दश तुर्यगाथयाऽष्टाविति, सर्वसङ्ख्यया चत्वारिंशत्, “जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy