SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २०२ क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजनानि बाहल्यतः, उक्तञ्च"जोयणसयविच्छिन्ना मूले उवरि दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोयणिया य से कुड्डा ।।" 119 || ३३६ 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपल्योपमस्थितिकाभिर्देवताभि परिगृहीताः ॥ 'ते ण' मित्यादि, ते त्रिभागाः प्रत्येकं त्रीनि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि योजनत्रिभागंच बाहल्येन प्रज्ञप्ताः, तत्र सर्वेषामपि क्षुल्लकपातालकशानामधस्तेषु त्रिभागेषु वायुकायः संतिष्ठति, मध्येषुत्रिभागेषु वायुकायोऽप्कायश्च, उपरितनेषु त्रिभागेष्वप्क्याः संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ख्यया सप्त पातालकलशहसहस्राणि क्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानि - क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेश्षैश्रश्च तीर्थकृद्भिः उक्तञ्च 119 11 “अन्नेवि य पायाला खुड्डालंजरसगठिया लवणे । अट्ठसया चुलसीया सत्तसहस्सा य सव्वेवि ॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि विन्नेया । मिभागे वाऊ मज्झे वाऊ य उदगं च ॥ उवरिं उदगं भणियं पढमगबीएसु वाउ संखुभिओ । उड्डुं वामइ उदगं रिवड्डइ जलनिही खुभिओ । 'तेसि ण' मित्यादि, तेषां 'क्षुल्लकपातालानां' क्षुल्लकपातालकलशानां महापातालानां चाधस्तनमध्येषु त्रिभागेषु तथाजगस्त्थितिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेष ‘बहवः' अतिप्रभूताः 'उदाराः' ऊर्द्धगमनस्वभावाः प्रबल शक्तयश्च, उत्- प्राबल्येन आरो येषां ते उदारा इति व्यात्पत्तेः, 'वाताः' वायवः 'संस्विद्यन्ते' उत्पत्यभिमुखीभवन्ति ततः सक्षणानन्तरं 'संमूर्च्छिन्ति' संमूर्च्छजन्मना लब्धात्मलाभा भवन्ति ततः 'चलन्ति' कम्पन्ते वातानां चलनस्वभावत्वात्, ततः 'घट्टन्ते' परसपरं सङ्घट्टमाप्नुवन्ति, तदनन्तरं 'क्षउभ्यन्ते' जातमहाद्भुत शक्तिकाः सन्त ऊर्द्धमितस्ततो विप्रसरन्ति, ततः 'उदीरयन्ति' अन्यान् वातान् जलमपि चोत् - प्राबल्येन प्रेरयन्ति, तं तं देशकालोचितं मन्दं तीव्रं मध्यमं वा भावं परिणामं 'परिणमन्ति' धातूनामनेकार्थत्वात् प्रपद्यन्ते । ॥२॥ ॥३॥ 'जया णं तेसिं खुड्डापायालाण' मित्यादि सुगमं भावितत्वात् । 'तया ण'मित्यादि, तदा णमिति वाक्यालङ्कारे 'तद्' उदकम् 'उन्नामिज्जंते' उन्नाम्यते ऊर्द्धमुत्क्षिप्यत इति भावः । ‘जयाण’मित्यादि, यदा पुनः ‘ण' मिति पुनरर्थे निपातानामनेकार्थत्वात्, तेषां क्षुल्लकपातालानां महापातालानां चाधस्तनमध्यमेषु त्रिभागेषु नो बहव उदारा वाताः संस्विद्यन्ते इत्यादि प्राग्वत् 'तया ण' मित्यादि तदा तदुदकं 'नोन्नाम्यते' नोर्द्धमुत्क्षिप्यते उत्क्षेपकाभावात्, एतदेव स्पष्टतरमाह-‘अंतरावियण’मित्यादि, 'अन्तरा' अहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तराअहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिषु For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy