________________
३३५
प्रतिपत्तिः-३, दीव० तिथिषु, अत्रोद्दिष्टाःअमावास्यापौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, प्रज्ञादित्वास्वार्थेऽण् अन्येतु व्याचक्षते-पूर्णोमाः-चन्द्रमाअस्यामिति पौर्णमासी, अण्तथैव,प्राकृतत्वाच्च सूत्रे 'पुन्नमासिणी ति पाठः, 'अइरेगं अइरेग' अतिशयेन अतिशयेन वर्द्धते हीयते वा?, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्र पञ्चनवति योजनसहस्राण्यवगाह्यात्रान्तरेचत्वारो 'महइमहालया' अतिशयेनमहान्तो महालिञ्जरंमहापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारञ्जरः-अलिअर इति, महापातालकलशाः प्रज्ञप्ताः, उक्तं च॥१॥ “पणनउइसहस्साई ओगाहित्ता चउद्दिसिं लवणं ।
चउरोऽलिंजरसंठाणसंठिया होति पायाला " तानेवनामतः कथयति, तद्यथा-मेरोः पूर्वस्यं दिशिवडवामुखः दक्षिणस्यांकेयूपःअपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपिमहापातालकलशा एकैकं योजनशतसहस्र-लक्ष उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्ध्वं एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना २ मध्ये एकैकंयोजनशतसहस्रं विष्कम्भेन ततऊर्ध्वं भूयोऽप्येकप्रादेशिक्या श्रेण्याविष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्रणि विष्कम्भतः, उक्तञ्च॥१॥ “जोयणसहस्सदसगं मूले उवरिंच होंति विच्छिण्णा।
मज्झे यसयसहस्सं तेत्तियत्तं च ओगाढा ॥" 'तेसिण'मित्यादि, तेषांमहापातालकलशानांकुड्याः सर्वत्रसमा दशयोजनशतबाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वात्मना वज्रमयाः ‘अच्छा जाव पडिरूवा' इति प्राग्वत् ।। 'तत्थ ण'मित्यादि, तेषु वज्रमयेषु कुडयेषु बहवो जीवाः पृथिवीकायिकाः पुद्गलाश्च ‘अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते जीवा इति सामर्थ्यादगम्यं, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात्, ‘चीयन्ते चयमुपगच्छन्ति उपचीयन्ते' उपचयमायान्ति, एतच्च पदद्वयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतयाव्यवहारात्, ततएवंसकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादूर्द्ध वाऽन्यथाऽन्यथा भवनात् ।
_ 'तत्थ ण'मित्यादि, तत्र तेषु चतुर्यु पातालकलशेषु चत्वारो देवा महर्द्धिका यावत्करणामहाद्युतिका इत्यादिपरिग्रहः, पल्योपमस्थितिकाःपरिवसन्ति, तद्यथा-'काले' इत्यादि, वडवामुखे कालः केयूपेमहाकालः यूपेवेलम्बः ईश्वरे प्रभञ्जनः॥ तेसिण'मित्यादि, तेत्रयोऽपित्रिभागास्त्रयस्त्रशद्योजनसहनाणि त्रीणि योजनशतानित्रयस्त्रिंशानि योजनत्रिभागंच बाहल्येन प्रज्ञप्ताः । तत्र चतुर्ध्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु वातकायः संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायोऽकायश्च, उपरितनेषु त्रिभागेष्वप्काय एव । 'अदुत्तरंचण'मित्यादि, अथान्य गौतम 'लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तहिं' इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारजरसंस्थानसंस्थिताः क्षुल्लाः पातालकलशाः प्रज्ञप्ताः, ते क्षुल्लाः पातालकलशा एकमेकं योजनसहनमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन । तेसिण'मित्यादि, तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org