________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १९८
धायइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चैव सव्वं । एवं जयंतेवि, नवरि सीयाए महानदीए उप्पिं भाणियव्वे ॥ एवं अपराजितेवि, नवरं दिसीभागो भाणियव्वो । लवणस्स णं भंते ! समुद्दस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पन्नत्ते ?, गोयमा ! -
मू. (१९९)
३३०
'तिन्नेव सतसहस्सा पंचानउतिं भवे सहस्साइं । दो जोयणसत असिता कोसं दारंतरे लवणे ।।
वृ. भगवानाह - गौतम ! त्रीणि योजनशतसहस्राणि पञ्चनवति सहस्त्रणि अशीते द्वे योजनशते क्रोशश्चैको द्वारस्य द्वारस्याबाधयाऽन्तरं प्रज्ञप्तं, तथाहि एकैकस्य द्वारस्य पृथुत्वं चत्वारि योजनानि, एकैकस्मिंश्च द्वारे एकैका द्वारशाखा क्रोशबाहल्या, द्वारे च द्वे द्वे शाखे, तत एकैकस्मिन् द्वारे पृथुत्वं सामस्त्येन चिन्त्यमानं सार्द्धयो जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेकत्र पृथत्वमीलने जातान्यष्टादश योजनानि तानि लवणसमुद्रपरिरयपरिमाणात् पञ्चदश शतसहस्राणि एकाशीतिसहस्राणि एकोनचत्वारिंशंयोजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतुर्भिर्भागेऽपहृते यदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं, तच्च यथोक्तमेव, "आसीया दोन्नि सया पणनउइसहस्स तिन्नि लक्खा य । कोसो य अंतरं सागरस्स दाराण विन्नेयं ॥'
119 11
मू. (२००) जाव अबाधाए अंतरे पन्नत्ते । लवणस्स णं पएसा घायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइसंडेवि सो चेव गमो । लवणे णं भंते! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायइसंडेवि । से केणट्टेणं भंते! एवं वुच्चइ-लवणसमुद्दे २ ?,
गोयमा ! लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडुए अप्पेज्जे बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं नन्नत्थ तज्जोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई देवे महिड्डीए पनिओवमट्ठिईए, से णं तत्थ सामानिय जाव लवणसमुद्दस्स सुत्थियाए रायहाणीए अन्नेसिं जाव विहरइ । से एएणट्टेणं गो० ! एवं वुच्चइ लवणे णं समुद्दे २, अदुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव निच्चे ॥
वृ. 'जंबूद्दीवं दीव’मित्यादि जम्बूद्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शङ्कयेत तत आह-'वलयाकारसंस्थानसंस्थितः' वलयाकारंमध्यशुषिरं यत्संस्थानं तेन संस्थितो वलयाकारसंस्थानसंस्थितः 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'परिक्षिप्य' वेष्टयित्वा तिष्ठति ॥ 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवालसंस्थितो यद्वा विषमचक्रवालसंस्थितः ?, चक्रवालसंस्थानस्योभयथाऽपि दर्शनात्, भगवानाह - गौतम ! समचक्रवालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालय भावात्, नो विषमचक्रवालसंस्थितः । सम्प्रति चक्रवालविष्कम्भादिपरिमाममेव पृच्छति - 'लवणे णं भंते! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादेत- द्विष्कम्भस्य द्विगुणत्वात्, पञ्चदश योजनशतसहस्राणि एकाशीतिसहस्राणि शतमेकोनचत्वारिंशं च किञ्चिद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणितभावनया स्वयं भावनीयं क्षेत्रसमास- टीकातो वा परिभावनीयम् ।
'से ण'मित्यादि, 'सः' लवणनामा समुद्र एकया पद्मवरवेदिकया, अष्टयोजनोच्छ्रित
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International