________________
३३१
प्रतिपत्तिः - ३, दीव० जगत्युपरिभाविन्येतिगम्यते, एकेन वनखण्डेनसर्वतः समन्तात्संपरिक्षिप्तः, साचपद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुच्चैस्त्वेन पञ्चधनुःशतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वेयोजने, अभ्यन्तरोऽपिपद्मवरवेदिकायावनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनंजम्बूद्वीपपद्मवरवेदिकावनषण्डवत्।।सम्प्रतिद्वारवक्तव्यतामभिधित्सुरिदमाह-'लवणस्स गंभंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयवैजयन्तजयन्तापराजिताख्यानि। _ 'कहिण मित्यादि, कव भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाहगौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य ‘पञ्चत्थिमेण न्ति पश्चिमभागे शीतोदायामहानद्याउपर्यत्रान्तरे लवणसमुद्रस्य विजयनामद्वारंप्रज्ञप्तं, अष्टौयोजनान्यर्द्धमुच्चैस्वेन एवं जम्बूद्वीपगतविजयद्वारसद्दशमेतदपि वक्तव्यं यावद्बहून्यष्टावष्टौ मङ्गलकानि यावद्बहवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिबन्धनं प्रतिपिपादविषुरिदमाह_ 'से केणटेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्वारम् ? इति, भगवानाह-गौतम ! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्याअन्येषांच बहूनां विजयाराजधानीवास्तव्यानां दानमन्तराणां देवानांदेवीनांचाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामिकत्वाद्विजयमिति, तथा-से एएणठेण मित्यादि सुगम।
__ 'कहिणंभंते!' इत्यादि, कवभदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम! विजयद्वारस्य पूर्वस्यां दिशितिर्यगसङ्खयेयान् द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्यदेवस्य विजया नाम राजधानीप्रज्ञप्ता, साच जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या।
सम्प्रति वैजयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कव भदन्त ! लवणस्य समुद्रस्य वैजयन्तंनाम द्वारं प्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य दक्षिणपर्यन्तेधातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवदवसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदितव्या।
जयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कव भदन्त ! लवसमुद्रस्य जयन्तं द्वारंप्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्तेधातकीखण्डपश्चिमार्द्धस्यपूर्वतः सीतायामहानद्या उपरिलवणस्य समुद्रस्यजयन्तं नाम द्वारंप्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चिमभागे वक्तव्या।
अपराजितद्वारप्रतिपादनार्थमाह-'कहि णं भंते !' इत्यादि, कव भदन्त ! लवणस्य समुद्रस्यापरिजितं नाम द्वारंप्रज्ञप्तं ?, भगवानाह-गौतम! लवणलसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्रलवणस्य समुद्रस्यापराजितं नाम द्वारंप्रज्ञप्त। एतद्वक्तव्यताऽपि विजयद्वारवन्निरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वार-स्योत्तरतोऽवसातव्या।
सम्प्रति द्वारस्यद्वारस्यान्तरंप्रतिपादयितुकाम आह-'लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य द्वारस्य २ “एसण मितिएतद्अन्तरंकियत्या अबाधया' अन्तरालत्वाव्याघातरूपया प्रज्ञप्त।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org