________________
३१८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८७ ‘एतेण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापिपद्मपरिवारोवक्तव्यः, तद्यथा-पूर्वस्यां दिशिचतसृणामग्रमहिषीणां योग्यानि चत्वारि महापद्मानि, दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणांयोग्यान्यष्टौपद्मसहस्राणि, दक्षिणस्यांमध्यमपर्षदोदशानांदेवसहस्राणांयोग्यानिदशपद्मसहस्राणि, दक्षिणापरस्यांबाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्रणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापद्मानि प्रज्ञप्तानि, तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश पद्मसहस्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहमणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसहस्राण्युत्तरस्यामिति ।
तदेवं मूलपद्मस्य त्रयः पद्मपरिवेषा अभूवन्, अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह- सेणंपउमे' इत्यादि, तत्पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तैस्त्रिभिः पद्मपरिवेषैः 'सर्वतः' सर्वासुदिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनच, तत्राभ्यन्तरेपद्मपरिक्षेपेसर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानिमध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि बाह्ये पद्मपरिक्षपेऽष्टाचत्वारिंशत्प-द्मशतसहस्राणि प्रज्ञप्तानि । एवमेव' अनेनैव प्रकारेण 'सपुव्वावरेणं'ति सह पूर्वं यस्य येन वा सपूर्वं सपूर्वं च तद् अपरं च सपूर्वापरं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्चतीर्थकृभिः, एतेन सर्वतीर्थकृताम-विसंवादिवचनतामाह, कोटयादिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ग्याया अवश्यं भावात् ।
सम्प्रति नामान्वर्थं पिपृच्छिषुराह-से केणडेणं भंते !' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवद्ह्रदो नीलवद्ह्रदः ? इति, भगवानाह-गौतम ! नीलवदहदे तत्र तत्र देशे तस्य तस्य देशस्य तत्रतत्रप्रदेशेबहूनि उत्पलानि' पद्मानि यावत्सहस्रपत्राणिनीलवड्दप्रमाणि-नीलवन्नाम हदाकाराणि 'नीलवर्णानि' नीलवन्नामवर्षधरप-र्वतस्तद्वर्णानि नीलानीति भावः, नीलवन्नामा चनागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमकदेववननिरवशेषं वक्तव्यंयावद्विहरति, ततो यस्मात्तद्गतानि पद्मानि नीलवद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा हदः, तथा चाह-‘से एएणतुण मित्यादि
'कहिणं भंते ! नीलवंतदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥
मू. (१८८) कहि णं भंते नीलवंतस्स नागुकुमारिदस्स नागकुमाररन्नो नीलवंता नाम रायहाणी नीलवंतद्दहस्सुत्तरेणं अन्नमिजंबुद्दीवे दीवे बारस जोयण सहस्साहं जहा विजयस्स।
मू. (१८९) नीवंतद्दहस्स णं पुरथिमपञ्चत्थिमेणं दस जोयणाइं अबाधाए एत्थ णं दस दस कंचनगपव्वता पन्नत्ता, ते णं कंचनगपव्वता एगमेगं जोयणसतं उद्धं उच्चत्तेणं पणवीसं २ जोयणाइं उब्बेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पन्नत्तरि जोयणाई [आयाम विक्खंभेणं उवरि पन्नासं जोयणाइं विक्खंभे मूले तिन्नि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मझेदोनि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरिंएगं अट्ठावन्नं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिन्ना मझे संखित्ता उप्पिं तणुया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org