SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० यावत्प्रतिरूपा, यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि परिग्रहः । 'तीसेणं कण्णियाए' इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्वर्णनं च ' से जहानामए आलिंगपुक्खरेइ वे' त्यादिना ग्रन्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यतापरिसपमाप्ति ॥ 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रशं विष्कम्भतो देशोनं क्रोशमूर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टत्यादि तद्वर्णनं विजयराजधानीगतसुधर्म्म- सभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्वतुडिय०' इति, तदनन्तरं सूत्रमाहसव्वरयणामए' इत्यादि सर्वात्मना रत्नमयम् अच्छं यावत्प्रतिरूपं, यावत्करणात् सण्ह लण्हे घट्टे मट्ठे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि तद्यथा - पूर्वस्यामुत्तरस्यां दक्षिणस्याम् । 'तेदारा' इत्यादि, तानि द्वाराणि पञ्चधनुःशतानि ऊर्द्धमुचैस्त्वेन, अर्द्धतृतीयानि धनुः शतानि विष्कम्भेन, तावदेव - अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तावदविशेषेणावसातव्यं यावत् 'वनमालाओ' इति वनमालावक्तव्यतापरिसमाप्ति ॥ 'तस्स ण' मित्यादि, तस्य भवनस्य उल्लोचोऽन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् । 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे मणिपीठका प्रज्ञप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुः शतानि बाहल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ॥ 'तीसे ण' मित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्तं, शयनीयवर्णकः प्राग्वत् । ' तस्सण' मित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति । 'सेण' मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां तदर्द्धाच्चत्वप्रमाणमात्राणां - तस्य मूलपद्मप्रमामस्यार्द्ध तदर्द्ध तच्च तद् उच्चत्वप्रमाणं च तदर्द्धाच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं । तदर्द्धाच्चत्वप्रमाणमेव तेषां भावयति- 'ते णं पउमा' इत्यादि, तानि पद्मानि प्रत्येकमर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन दश योजनशतानि उद्वेयेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वाग्रेण ॥ 'तेसि ण'मित्यादि, तेषां पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्त, वज्रमयानि मूलानि रिष्ठरत्नमयाः कन्दा वैडूर्यरत्नमया नालाः तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणि कनकमय्यः कर्णिकः नानामणिमयाः पुष्करस्थिभुगाः 'ताओणं कण्णियाओ' इत्यादि, ताः कर्णिकाः क्रोशमायामविष्कम्भाभ्यामर्द्धक्रोशं बाहल्येन सर्वात्मना कनकमय्यः 'अच्छाओ जाव पडिरूवाओ' इति प्राग्वत् ॥ 'तासि णं कण्णियाण' मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावद्वक्तव्यो यावन्मणीनां स्पर्श।। ‘तस्सण’मित्यादि, तस्य मूलभूतपद्मस्य 'उपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्यां, सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । Jain Education International For Private & Personal Use Only ३१७ www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy