________________
३०६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ गौतम! नायमर्थ-समर्थो, यद्-यस्मान्नेच्छितकामगामिनःन इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायंन किन्तुनशब्दइत्यत्रा (ना)देशाभावोयथा नैके द्वेषस्यपर्याया'इत्यत्र, नेच्छितं-इच्छाया अविषयीकृतं कामस्वेच्छयागच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाःप्रज्ञप्ता हे श्रमण! हे आयुष्मन्!
'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु ‘असयः' अस्युपलक्षिताः सवकाः पुरुषाः, मषीति वा मष्युपलक्षितालेखनजीविनः, कृषिरितिकृषिकर्मोपजीविनः, पणीति पणितंपण्यमिति वाक्रयविक्रयोपजीविनः, वाणिज्यमितिवाणिज्यकलोपजीविनः?, भगवानाहगौतम ! नायमर्थ समर्थो, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्!॥ अस्थिणंभंते' इत्यादि, अस्तिभदन्त! उत्तरुकुरुषुकुरुषु हिरण्यमितिवा-हिरण्यंअघटितंसुवर्णं कांस्यं-कांस्यभाजनजाति दूस'मितिवादूष्यंवजाति, मणिमौक्तिक-शङ्खशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशलशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं-प्रधानंस्वापतेयं-धनंसत्सारहस्वापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेवण मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीव्रोममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात्
___ 'अस्थिणं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु राजेति वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्डलिकोवायुवराजइतिवा-उत्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरलालङ्क तसौवर्णपट्टविभूषितशिराः, कौटुम्बिक इतिवा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं ग्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बं तस्याधिपतिौडम्बिकः, इभ्य इतिवा, इभो-हस्तीतप्रमाणंद्रव्यमहतीतीभ्यः, यत्सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौव्णपट्टिभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापति, सार्थवाह इति वा। ॥१॥ - "गणिमं रिमं मेजं पारिच्छंचेव दव्वजायं तु।
धेतूणं लाभत्थं वच्चइ जो अनदेसंतु॥ ॥२॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे।
सो सत्थवाहनामंधणो ब्व लोए समुव्वहइ ।। एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थ समर्थो, व्यपगतर्द्धिसत्काराव्यपगता ऋद्धि-विभवैश्वर्यं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्यामनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! । 'अस्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषुकुरुषुदास इतिवा, दासः-आमरणं क्रयक्रीतः, प्रेष्य इति वा,प्रेष्यः-प्रेषणयोग्य, शिष्य इति वा, शिष्यःउपाध्यायस्योपासकः, भृतक इतिवा, भृतको नियतकालमधिकृत्य वेतनेन कर्मकरणाय दृतः, 'भागिल्लए तिवाभागिक इतिवा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वाग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहारादि कर्मकारः ?, भगवानाह-गौतम ! नायमर्थ समर्थो, व्यपगताभियोग्यास्ते मनुजाः प्रज्ञप्ताः, अभिमुखं कर्मसु युज्यते व्यापार्यत इति वाऽभियोग्यस्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org