________________
३०५
प्रतिपत्तिः-३, दीव० गौतम आह-भगवन्! भवेदेतद्रूपः पुष्पफलानामास्वादः?, भगवानाहगौतम! नायमर्थसमर्थ, तेषांपुष्पफलानामितश्चक्रवर्तिभोजनादिष्टतरादिरेवास्वादः प्रज्ञप्तः ।
ते णं भंते !' इत्यादि, ते भदन्त ! मनुजास्तं-अनन्तरोदितस्वरूपमाहारमाहार्य ‘कव वसतौ कस्मिन्नुपाश्रये ‘उपयान्ति?' उपगच्छन्ति, भगवानाह-गौतम! 'वृक्षगृहालयाः' वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !।
'तेणंभंते' इत्यादि,तेभदन्त! वृक्षाः 'किंसंस्थिताः' किमवसंस्थिताःप्रज्ञप्ताः?, भगवानाहगौतम! अप्येककाः कूटाकारसंस्थिताः सिखराकारसंस्थिता इत्यर्थअप्येककाःप्रेक्षागृहसंस्थिताः अप्येककाश्छत्रसंस्थिताः अप्येककाध्वजसंस्थिताःअप्येककाः स्तूपसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येककाः कूटाकारसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उपवेशनयोग्या भूमि, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पालं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्टालकः-प्राकारस्योपर्याश्रयविशेषः, अप्येकका वीथीसंस्थिताः वीथी-मार्ग, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादाः उत्सेधबहुला वा प्रासादास्ते चोभयेऽपि पर्यन्तशिखराः, हर्म्य-शिखररहितंधनवतांभवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो वातायनं, अप्येकका वालाग्रपोतकासंस्थिताः, वालाग्रपोतिका नाम तडागादिषु जलस्योपरि पादिः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छादनं, अप्येकका वरभवनविशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गृहं तस्येव यद् विशिष्टं संस्थानं तेन संस्थिताः, शुभा शीतला च छाया येषां ते शुभशीतलच्छायास्ते द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !।
'अस्थिणं भंते!' इत्यादि, सन्तिभदन्त! उत्तरकुरुषुकुरुषुगृहाणिवाऽस्मददगृहकल्पानि गृहायतनानि तेषुगृहेषु तेषांमनुष्याणामायतनानि-गमनानिगृहायतनानि?, भगवानाह-गौतम नायमर्थ समर्थो, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !।। ___'अत्थिणंभंते!' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषुग्रामा इतिवायावत्सन्निवेशा इति वा, यावत्करणानगरादिपरिग्रहः, तत्र ग्रसन्ति बुद्धयादीन् गुणानिति यदिवा गम्याःशास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इतिनिपातनान्नोऽनादेशाभावः, निगमाः-प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानिखेटानि, क्षुल्लप्राकारवेष्टितानि कर्बटानि, अर्द्धतृतीयगव्यतान्तामरहितानि मडम्बानि, 'पट्टणाइ वे'ति पट्टनानिपत्तनानिवा, उभयत्रापिप्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेवगम्यं तत्पट्टनं, यत्पुनः शकटै?टकैनौभिश्च गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तंच॥१॥ “पत्तनं शकटैगम्यं, घोटकैनॊभिरेव च ।
नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते॥" द्रोणमुखानि-बाहुल्येनजलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः,आश्रमाः-तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमातप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सन्निवेशा इति-सन्निवेशोयत्रसार्थादिरावासितः, भगवानाह19 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org