________________
३०७
प्रतिपत्तिः - ३, दीव० भावः कर्मवा आभियोग्यं, 'व्यञ्जनाद्यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्यं येभ्यस्ते तथा हे श्रमण ! हे आयुष्मन् ! । 'अस्थिणं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मातेति वा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा सुत इति वा दुहितेति वा स्नुषेति वा?, तत्र माता-जननी पिता-जनकः सहोदरो-भ्राता सहोदरी-भगिनी वधूः-भार्यासुतः-पुत्रः सुता-दुहिता पुतरवधूः-स्नुषा, भगवानाह-हन्त! अस्ति, तथाहि-या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृकत्वात्, इतरातस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरादुहिता, स्वपुत्रभोग्यत्वात्स्नुषेति, ‘नोचेवण'मित्यादि, नपुनस्तेषांमनुजानां तीव्रप्रेमरूपंबन्धनंसमुत्पद्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्!।।
'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु अरिरिति वा-शत्रु वैरीति वा-जातिनिबद्धवैरोपेतः, घातक इतिवा, घातकोयोऽन्येनघातयति, वधकइतिवा, वधकः-स्वयं हन्ता, प्रत्यनीक इतिवा, प्रत्यनीकः-छिद्रान्वेषी, प्रत्यमित्र इतिवा, प्रत्यमित्रो यः पूर्वं मित्रं भूत्वा पश्चाद मित्रो जातः?, भगवानाह-नायमर्थ समर्थो, व्यपगतवैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥'अस्थिणं भंते' इत्यादि, अस्ति सभदन्त! उत्तरकुरुषुकुरुषु मित्रमितिवा मित्रं-स्नेहविषयः, वयस्य इतिवा-समानवया गाढतरस्नेहविषयः, सखा इतिवा-समानखादनपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत्-मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिकः-सङ्गतिमात्रघटितः?, भगवानाह-नायमर्थ समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्!।
___ 'अत्थिणंभंते!' इत्यादि, अस्ति भदन्त! उत्तरकुरुषुकुरुषु आबाहा इतिवा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्रसआवाहः-विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इतिवा, वीवाहःपरिणयनं, यज्ञाइतिवा, यज्ञाः-प्रतिदिवसं स्वस्वेष्टदेवतापूजाः, श्राद्धानीतिवा, श्राद्धं-पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः-प्रतीतः, मृतपिण्डनिवेदनानीति वा-मृतेभ्यः श्मशाने तृतीयनमादिषुदिनेषुपिण्डनिवेदनानिमृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनंशिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं-गर्भस्थापनं?, भगवानाह-नायमर्थसमर्थः, वोयपगतावाहवीवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्!। अस्थिणंभंते' इत्यादि,अस्तिभदन्त! उत्तरकुरुषुकुरुषुनटप्रेक्षेति वानटा-नाटकानां नाटयितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृतयन्ति स्म नृत्या-नृत्यविधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षाइतिवा, जल्लप्रेक्षेतिवा, जल्ला वरत्राखेलकाराजस्तोत्रपाठका इत्यपरेतेषांप्रेक्षाजलप्रेक्षा, मल्लप्रेक्षेति वा, मल्लाः-प्रतीताः, मौष्टिकप्रेक्षेतिवा, कथकाः प्रतीताः, प्लवकप्रेक्षेतिवा, प्लवका ये उत्प्लुत्य गर्तादिकं झम्पामिर्लङ्घयन्ति नद्यादिकंवा भन्ति तेषां प्रेक्षा प्लवकप्रेक्षा, लासकप्रेक्षेति वा, लासकायेरासकान्गायन्तिजयशब्दप्रयोक्तारोवाभाण्डास्तेषांप्रेक्षालासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लङ्गप्रेक्षेति वा, लङ्खा ये महावंशाग्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्गप्रेक्षा, मङ्खप्रेक्षेति वा, ये चित्रपट्टिकादिहस्ता भिक्षांचरन्ति ते मङ्खास्तेष प्रेक्षा मङ्खप्रेक्षा, 'तूणइलपेच्छाइवा' इति तूणइल्ला-तूणाभिधानवाद्य
Jain Education International
For Private & Personal Use Only
__www.jainelibrary.org