________________
३००
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ ____'कयलीखंभातिरेगसंठियनिव्वणसुकुमालमउयकोमलअइविमलसमसंहतसुजायवट्टपीवरनिरंतरोन' कदलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं ययोस्तौ कदलीस्तम्भातिरेकसंस्थितौ निव्रणौ-विस्फोटकादिकृतक्षतरहितौ सुकुमारौ-अकर्कशौमृदू-अकठिनौ कोमलौ-दृष्टिसुभगौ अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनाप्यकलङ्कितौ समसंहतौसमप्रमाणौ सन्तौ संहतौ समहसंहती सुजाती-जन्मदोषरहितौ वृत्तौ-वर्तुलौ पीवरौ-मांसलौ निरन्तरौ-उपचितावयवतयाऽपान्तरालवर्जितौ ऊरू यासां ताः कदलीस्तम्भातिरेकसंस्थितनिव्रणसुकुमारमृदुकोमलातिविलसमसंहतसुजतवृत्तपीवरनिरन्तरोरवः ‘पट्टसंठियपसत्थविच्छिण्णपिहुलसोणीओ' पट्टवत्-शिलापट्टकादिवत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊद्दद्दधिः पृथुला दक्षिणोत्तरतः शरोणि-कटेरग्रभागो यासां ताः पट्टसंस्थितविस्तीर्णपृथुलश्रोणयः।
'वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारणीओ' वदनस्यमुखस्यायामप्रमाणं-द्वादशाङ्गुलानितस्माद् द्विगुणितं-द्विगुणप्रमाणंसद्विशालंवदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितंसुबद्धं-अतीव सुबद्धावयवंनतु श्लथमिति भावः जघनवरंवरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपातः पराकृतत्वात्, धारयन्तीत्येवंशीला वदनायामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्यः 'वज्जविराइयपसत्थलक्खणनिरोदरतिवलीविणीयतणुनमियमज्झयाओ वज्रस्येव विराजितं वज्रविराजितंप्रशस्तानि लक्षणानि यत्र तत्प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिम्रोवलयो विनीता-विशेषतः प्रापितायत्र तत्रिवलीविनीतंतनु-कृशंनतंतनुनतमीषन्नतमित्यर्थमध्यंयासांता वज्रविराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनतमध्यकाः।
'उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएज्जलडहसुविभत्तसुजायसोमंतरुइलरमणिज्जोराई ऋजुका-नवक्रासमा-न काप्युद्दन्तुरा संहिता-सन्तता नत्वपान्तरालव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव आदेया सुविभक्तासुविभागासुजाता-जन्मदोषरहिताअत एव शोभमानारुचिरा-दीप्रारमणीया-द्रष्टमनोरमणशीला रोमराजिर्यासां ता ऋजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलटहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियआकोसायंतपउ-गंभीरवियडनामा' इति पूवत् ।
___'अणुब्भडपसत्थपीणकुच्छीओ' अनुभटा-अनुल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुक्षिर्यासां ता अनुभटप्रशस्तपीनकुक्षयः ‘सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मियमाइयपीणरइयपासाऊकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इतिपूर्ववत्
'कंचणकसमुप्पमाणसमसंहितसुजायलट्ठचूचुयआमेगजमलुगलवट्टियअब्भुन्नयरइयसंठियपओहराओ काञ्चनकलशाविव काञ्चनकलशौसुप्रमाणौ-स्वशरीरानुसारिप्रमाणोपेतौसमौ–नेकौ हीनो नैकोऽधिकंइति भावः संहितौ-संततौ अपान्तरालरहिताविति भावः सुजाती-जन्मदोषरहितौ लष्टौ-मनोज्ञौ चूचुक आमेलकः-आपीडकः सेखरो ययोस्तौ चूचुकापीडको ‘जमलजुगले'ति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only