________________
प्रतिपत्तिः - ३, दीव०
३०१
यमलयुगलं- समश्रेणीकयुगलरूपौ वर्त्तिताविव वर्त्तितौ कठिनाविति भावः अभ्युन्नतौ- पत्युरभिमुखमुन्नतौ रतिदं - रतिकारि संस्थितं - संस्थानं ययोस्तौ रतिदसंस्थितौ पयोधरौ यासां ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्त्तिताभ्युन्नतरतिदसंस्थितपयोधराः । आनुपूव्येर्ण- क्रमेण
'अणुपुव्वतणुयगोपुच्छवट्टसमसहितनमियआएज्जललियबाहाओ' तनुकौ आनुपूर्व्यतनुकौ अत एव गोपुच्छवद् वृत्तौ - वर्तुलौ समौ - समप्रमाणौ संहितौ - स्वशरीरसंश्लिष्टौ नतौ स्कन्धदेशस्य नतत्वात् आदेयौ - अतिसुभगतयोपादेयौ ललितौ-मनोज्ञचेष्टाकलितौ बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेयललितबाहवः 'तंबनहा' ताम्रा - ईषद्रक्ता नखाः-कररुहा यासां तास्ताम्रनखाः 'मंसलग्गहत्था' मांसलौ अग्रहस्तौ बाह्वग्रभागवर्त्तिनौ हस्तौ यासां ता मांसलाग्रहस्ताः । 'पीवरकोमलवरंगुलीया' पीवरा - उपचिताः कोमलाः- सुकुमारा वराः-प्रमाणलक्षणोपेत-तया प्रधाना अङ्गुलयो यासां ताः पीवरकोमलवराङ्गुलिकाः 'निद्धपाणिरेहा' स्निग्धाः पाणौ रेखा यासां ताः तथा, 'रविससिसंखचक्क सोत्थियविभत्तसुविरइयपाणिलेहा' इति पूर्ववत् ‘पीणुन्नयकक्खवक्खवत्थिप्पएसा' पीना - उपचितावयवा उन्नता - अभ्युन्नताः कक्षावक्षोबस्तिरूपाः प्रदेशा यासां ताः पीनोन्नतकक्षावक्षोबस्तिप्रदेशाः 'पडिपुण्णगलकवोला' प्रतिपूर्णौ गलकपोलौ च यासां तास्तथा 'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम् - उपचितमांसं संस्थितं विशिष्टसंस्थानं प्रशस्तं - प्रशस्तलक्षणोपेतं हनुकं यासां ता मांसलसंस्थितप्रशस्तहनुकाः ।
'दाडिमपुप्फप्पगासपीवरप्पवराहरा' दाडिमपुष्पप्रकाशः पीवरः प्रवरः - सुभगोऽधरो यासां ता दाडिमपुष्पप्रकाशपीवरप्रवराधराः 'सुंदरोत्तरोट्ठा' व्यक्तं 'दहिदगरयचंदकुंदवासंतियमउलधवलअच्छिद्दविमलदसणा' दधि - प्रतीतं दकरज - उदककणाः चन्द्रः - प्रतीतः कुन्दः - कुसुमं वासन्तिकामुकुलं- वासन्तिकाकलिका तद्वद्धवला अच्छिद्राः - छिद्ररहिता विमला - मलरहिता दशना-दन्ता यासां ता दधिदकरजश्चन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशनाः 'रत्तुप्पलपत्तमउयसूमालतालुजीहा' रक्तोत्पलवद् रक्तं मृदु-अकठिनं सुकुमारं अकर्कशं तालु जिह्वा च यासां ता रक्तोत्पलमृदुसुकुमारतालुजिह्वाः ।
'कणइरमुकुल अकुडियअब्भुग्गयउज्जुतुंगनासा' कणयराअतिस्निग्धतया श्लक्ष्णश्लक्ष्णस्वेदकणाकीर्णा मुकुला - नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकारा अभ्युद्गता अभ्युन्नता ऋजुका- सरला तुङ्गा उच्चा नासा यासां तास्तथा, 'सारयनवकमलकुमुयकुवलयविमुक्कदलनिगरसरिसलक्खणंकियकंतनयणाओ' शारदं- शरन्मासभावि यन्नवंप्रत्यग्रं कमलं - पद्मं कुमुदं - कैरवं कुवलयं - नीलोत्पलं वैर्विमुक्तो यो दलनिकरस्तत्सध्शे, किमुक्तं भवति ? – एवं नामायददीर्धे मनोहारिणी नयने यत् शारदान्नवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमाभातीति, लक्षणाङ्किते - प्रशस्तलक्षणोपेते नयने यासां ताः शारदनवकमलकुमुदकुवलयविमुक्तदलनिकरसदृशलक्षणाङ्कितनयनाः, एतदेव किञ्चिद्विशेषार्थमाह
'पत्तलचपलायंततंबलोयणाओ' पत्रले - पक्ष्मवती चपलायमाने ताम्रे - क्वचित्प्रदेशे ईषद्रक्ते लोचने यासां ताः पत्रलचपलायमानताम्रलोचनाः 'आणामियचावरुइलकिण्हब्भराइ- संठियसंगय आगयसुजायभूमया अल्लीणपमायजुत्तसवणा' इति एवंवत, पाण्यरमणिगड लहा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org