________________
प्रतिपत्तिः -३, दीव०
२९९ केवलं छोटिता अपि तथास्वभावतया शाल्मलीबोण्डाकारवद् घननिचिता अवतिष्ठन्ते ततएतद्विशेषणोपादानं, तथा मृदवः-अकर्कशा विशदा-निर्मलाःप्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-लक्ष्णाः लक्षणा-लक्षणवन्तः सुगन्धाःपरमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको-रलविशेषः भृङ्गः-प्रतीतः नीलो-मरकतमणि कज्जलं-प्रतीतं प्रहृष्ट:-प्रमुदितो भ्रमरगणः प्रहृष्टभ्रमरगणः, प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहटग्रहणं, तद्वस्निग्धा भुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बानिकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिलाः प्रदक्षिणावर्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते साल्मलीबोण्डघननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्तमूर्दधशिरोजाः, 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकादीनि व्यञ्जनानिमषतिलकादीनि गुणाः-क्षान्त्यादयस्तैरुपपेता-युक्तालक्षणव्यञ्जनगुणोपपेताः 'सुजायसविभत्तसुरूवगा' सुजातं-सुनिष्पन्नजन्मदोषरहितत्वात्सुविभक्तं-अङ्गप्रत्यङ्गोपाङ्गानांयतोक्तवैविक्त्यभावात्सुरूपं-शोभनं समुदायगतं येषांतेसुजातसुविभक्तसुरूपकाः पासाईया' इत्यादिपदचतुष्टयं प्राग्वत्।
'उत्तरकुराए णं भंते ! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीश आकाभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः ?, भगवानाह-गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्य-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानिउदरप्रभृतीनि तैः सुन्दर्य-सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्यानि यानि सर्वाण्यङ्गानि-उदरप्रभृतीनितैः सुन्दर्य-सुन्दराकाराः सुजातसर्वाङ्गसुन्दर्य 'पहाणमहेलागुणजुत्ताओ' प्रधाना-अतिशायिनो ये महेलागुणाः-प्रियंवदत्वभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ताःउपपेताःप्रधानमहेलागुणयुक्ताः ‘कंतविसयमिउसुकुमाल-कुम्मसंठिवियसिठ्ठचलणा' कान्तौ-कमनीयौ विशदौ-निर्मलौ मृदू-अकठिनौ सुकुमारौ-अकर्कशो कूर्मसंस्थितौ कूर्मवदुन्नतौविशिष्टौ-विशिष्टलक्षणोपेतौचरणौ यासांताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः ‘उज्जुमउयपीवरपुट्ठसाहयंगुलीओ' ऋजवःअवका मृदवःअकठिनाः पीवरा-अकृशाः पुष्टा-मांसलाः संहताः-सुश्लिष्टा अङ्गुलयो यासांता ऋजुमृदुकपीवरपुष्टसंहताङ्गुलयः। 'उन्नयरतियतलिनतंबसुइनिद्धनखा' उन्नता-ऊर्द्धनता रतिदा-रमणीयास्तलिनाः- प्रतलास्ताम्रा-ईषद्रक्ताः शुचयः-पवित्राः स्निग्धाः-स्निग्धच्छाया नखा यासां ता उन्नतरतिदतलिन- ताम्रशुचिस्निग्धनखाः 'रोमरहियवट्टलट्ठसंठियअजहन्नपसत्थलक्खणजंघाजुयला' रोमरहितं वृत्तं-वर्तुलं लष्टसंस्थितं-मनोज्ञसंस्थानं क्रमेणोर्द्ध स्थूरस्थूरतरमिति भाव, अजघन्यप्रशस्तलक्षणं- जघन्यपदरहितशेषप्रशस्तलक्षणाङ्कितं जङ्घायुगलं यासां ता रोमरहितवृत्तलष्टसंस्थिता- जघन्यप्रशस्तलक्षणजङ्घायुगलाः ‘सुनिम्मियगूढजाणुमंडलसुबद्धा' सुष्टुअतिशयेन निर्मितः सुनिर्मितः एवं सुगूढं-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबद्धं-स्नायुभिरतीवबद्धंयासांताः सुनिर्मितसुगूढजानुमण्डलसुबद्धाः, सुबद्धशब्दस्यनिष्ठान्तस्य परनिपातः सुखादिदर्शनात् प्राकृतत्वाद्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org