________________
२९८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ तले-हस्ततले तालु-काकुदं जिह्वाच-रसना येषांते हुतवहनिर्मातधौततप्ततप-नीयरक्ततलतालुजिह्वाः ‘गरुलाययउज्जुतुंगनासा' गरुडस्येवायता-दीर्घाऋज्ची-अवक्रा तुङ्गा-उन्नता तासानासिका येषांते गरुडायतऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते-पद्मवद्विकसिते धवले क्वचिद्देशे पत्रले-पक्ष्मवती अक्षिणी-लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेवस्पष्टयति
‘विप्फालियपुंडरीयनयणा' विस्फारितं-रविकिरणैर्विकासितं यत्पुण्डरीकं-सितपतद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालिं-रविकिरणैर्विकासितमिति व्याख्येयं, 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं-ईषन्नामितमारोपितमिति भावः यच्चापंधनुस्तद्द रुचिरे-संस्थानविशेषभावतोरमणीये तनू-तनुके श्लक्ष्णपरिमितवालपङ्कयात्मकत्वात् कृष्णे-परमकालिमोपेते स्निग्धे-स्निग्धच्छाये भ्रुवौ येषां ते आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते-यथोक्तप्रमाणोपपन्ने आयते-दीर्घ सुजाते-सुनिष्पन्ने जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कवचत्पनुरेवं पाठः'आणामियचावरुइलकिण्हब्भराइतणुकसिणनिद्धभुमया' तत्रानामितचापवद् रुचिरे-मनोज्ञे कृष्णाभ्रराजीव-कालमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे-सच्छाये ध्रुवौ येषां ते तथा।
आलीणपमाणजुत्तसवणा' आलीनौ नतुटप्परौ प्रमाणयुक्तौ-प्रमाणोपेतौश्रवणौ-कर्णी येषां तेआलीनप्रमाणयुक्तश्रवणाः, अत एव सुसवणा' शोभनश्रवणाः पीणमंसलकवोलदेसभागा' पीनौ-अकृशौ यतो मांसलौ-उपचितौ कपोलदेशौ-गण्डभागौ मुखस्य देशभागौ येषां तेपीमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलवयवा इत्यर्थः पीना-मांसलाः कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागाः।
'निव्वणसमलट्ठमट्टचंदद्धसमनिडाला' निव्रणं-विस्फोटकादिक्षतरहितं समं-अविषमं अत एव लष्टं-मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसमं-शशधरसमग्रविभागसहसं ललाट-अलकं येषां ते निव्रणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडाले'ति प्राकृतलक्षणवशात्, ‘उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव-सम्पूर्णचन्द्र इव सोमं सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, 'घणनिचियसुबद्धलक्खणुन्नयकूडागारनिहपिंडियसिरा' घनं-अतिशयेन निचितंघननिचितं सुष्टु-अतिशयेन बद्धानि-अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं-मध्यभागे उच्चं यत्कूटं तस्याकारो-मूर्तिस्तन्निभमुन्नतकूटाकारसशमिति भावः पिण्डितं-स्वकर्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिरसः छत्ताकारुत्तमंगदेसा छत्राकार उत्तमाङ्गरूपोदेशोयेषांतेछत्राकारोत्तमाङ्गदेशाः
'दाडिमपुप्फप्पगासतवणिज्जसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशादाडिमपुष्पप्रतिमास्पनीयसशाश्च निर्मला-आगन्तुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च केशोत्पत्तिस्थानभूता मस्तकत्वग्येषां ते दाडिमपुष्पप्रकाशतपनीयसद्दशनिर्मलसुजातकेशान्तकेशभूमयः ‘सामलिबोंडघणछोडियमिउविसयपसत्थसुहमलक्खणसुगंधसुन्दरभुयमोयगभिंनीलकजलपहट्ठभमरगणनिकरंबनिचियकुंचियपाहिणावत्तमुद्धसिरया' शाल्मकी-वृक्षविशेषः सच प्रतीत एव तस्य बोण्डं-फलं तद्वच्छोटिता अपिघनं-अतिशयेन निचिताः शाल्मलीबोण्डघननिचितच्छोटिताः, स्नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org