________________
प्रतिपत्तिः - ३, दीव०
२९७
‘आयंबतलिणसुइरुइलनिद्धनखा' आताम्रारा - ईषद्रक्ताः तलिनाः - प्रतलाः शुचयःपवित्रा रुचिरा - दीप्ताः स्निग्धाः अरूक्षा नखाः - कररुहा येषां ते तथा आतम्रतलिन शुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रमाणिरेखा दिकसौवस्तिकौ -दिकप्रोक्षको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिकसौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशिषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह- चन्द्रसूर्यशङ्खचक्र दिक्सौवस्तिकरेखाः, एतदनन्तरं क्वचिदेवं पाठः - रविससि संखवरचक्क सोत्थियविभिन्न सुवियइयपणिरेहा व्यक्तो नवरं विभक्ता-विभगवत्यः सुविरचिताः सुष्ठ कृतास्वकीयकर्म्मणा' अनेगवरलक्खणुत्तमपसत्थसुइरइयपाणिलेहा' अनेकैः – अनेकसङ्ख्यैर्वरैः - प्रधानैर्लक्षणै- रुत्तमाः प्रशस्ताः - प्रशंसास्पदीभूताः शुचयः - पवित्रा रचिताः - स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवरा - हसिंहसद्दूलउसभनागवरपडिपुण्णविउलखंधा' वरमहिषः–प्रधानसौरभेयः वराहः - शूकरः सिंहः - केशरी शार्दूलो - व्याघ्रः ऋषभो - वृषभः नागवरः- प्रधानो गजः, एषामिव प्रतिपूर्ण - स्वप्रमाणेनाहीनो विपुलो - विस्तीर्ण स्कन्धः अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रतिपूर्णविपुलस्कन्धाः ।
'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' चतुरङ्गुलं- स्वाङ्गुलापेक्षया चतुरङ्गुलप्रमितं सुष्ठु - शोभनं प्रमाणं यस्याः सा चतुरङ्गुलसुप्रमाणा कम्बुवरसद्दशी - उन्नततया वलियोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते चतुरङ्गुलसुप्रमाणकम्बुवरसध्शग्रीवाः 'मंसलसंठियसद्दूलविपुलहणुया' मांसलं - उपचितमांसं सम्यक् स्थितं संस्थितं विशिष्टस्थानमित्यर्थ प्रशस्तं प्रशस्यलक्षणोपेतत्वात् शार्दूलस्येव - व्याघ्रस्येव विपुलं - विस्तीर्णं हनुकं येषां ते तथा, 'अवट्ठियसुविभत्तमंसू' अवस्थितानिअवर्द्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि - अतिरम्यतयाऽद्भुतानि श्मश्रूणि - कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलप्पवालबिंबफलसन्निभाधरोट्ठा' ओयवियं परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थ बिम्बफलं - गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधर ओष्ठः - अधस्तनो दन्तच्छदो येषां ते तथा ।
‘पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं - अकलङ्कं यत् शशिलकलं- चन्द्रखण्डं विमल - आगन्तुकमलरहित निर्मलः - स्वभावोत्यमलरहितो यः शङ्खः कोक्षीरफेनः प्रतीतः कुन्दं - कुन्दकुसुमं दकरज - उदककणाः मृणालिका - बिशं, एतद्वद्धवला दन्तश्रेणिर्येषां ते पाण्डुरशशिशकलविमलनिरमलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणयः ‘अकंडदंता' इति अखण्डाः सकला दन्ता येषां ते अखण्डदन्ताः 'अप्फुडियदंता' अस्फुटिता- अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता - जन्मदोषरहिता दन्ता येषां ते सुजातदन्ताः, तथाऽविरला - धना दन्ता येषां ते अविरलदन्ताः ।
‘एगदंतसेढीविव अनेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपङ्कय इव लक्ष्यन्त इति भावः, 'हुयवहनिद्धंत धोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन - अग्निना निर्ध्यातं सद् यद् धौतं-शोधितमलं तप्तं तपनीयं सुवर्णविशेष स्तद्वद् रक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org