________________
२९६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/१८५
णोचितौ पार्श्वो येषां ते सङ्गतपार्श्वो अत एव सुन्दरपार्श्वोः 'सुजायपासा' इति सुनिष्पन्नपावः 'सियमाइयपीणरइयपासा' मितं- परिमितं यथा भवति देहानुसारेणेत्यर्थ: आयतौ - दीर्घौ पीनौउ पचितौ मांसलाविति भावः रचितौ - स्वस्वनामकर्मोदयनिर्वर्त्तितौ रतिदौ वा-रम्यौ पार्श्वो येषां ते तथा, 'अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी' अविद्यमानं - मासलतयाऽनुपलक्ष्यमाणं करण्डकं - पृष्ठवंशास्थिकं यस्य देस्य सोऽकरण्डकस्तं कनकस्येव रुचको - रुचिर्यस्य स कनकरुचिस्तं निर्मलं - स्वाभावाविकागन्तुकमलरहितं सुजातं - बीजाधानादारभ्य जन्मदोषरहितं निरुपहतं - ज्वरादिदंशाद्युपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः ।
'कणगसिलायलुज्जलपसत्थसमतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुज्वलं च-निर्मलं प्रशस्तं च- अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितंमांसलं विस्तीर्णम्-ऊर्द्धाधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोज्वलप्रशस्तसमतलोपचितविस्तीर्णपृथुलक्षसः 'सिरिवच्छंकियवच्छा' इति श्रीवृक्षेणाङ्कितं - लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षसः ‘जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिट्ठविसिट्टघणथिरसुवद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ - वृत्ततया आयततया च यूपतुल्यौ पीनौ - उपचितौ रतिदौ- पश्यतां ष्टिसुखद पीवरप्रकोष्ठौ - अकृशंकलाचिकौ संस्थितौ - विशिष्टसंस्थानौ सुश्लिष्टाः - संगताः विशिष्टाः- प्रधानाः घनानिविडाः स्थिरा - नातिश्लथाः सुबद्धाः - स्नायुभि सुष्ठु नद्धाः सन्धयःसन्धानानि ययोस्ती तथा पुरवरपरिघवत् महानगरार्गलावद् वर्त्तितौ च बाहूयेषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टघनस्थिरसुबद्धसन्धिपुरवरपरिघवर्त्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी' युगसन्निभौ वर्त्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषां ते तथा, तथा संस्थिताः - सम्यस्थिता उपचिता-मांसला घना - निबिडाः स्थिरा - अचाल्याः, कुतः ? इत्याह- सुबद्धा - ढबन्धनबद्धा निगूढा मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः ।
'भुयगीसरविपुलभोगआयाणफलिहउच्छूढदीहबाहू' भुजगेश्वरो - नागराजस्तस्य यो विपुलो - महान् भोगो - देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनार्थं गृह्यत इत्यादानस चासौ परिघश्च आदानपरिघः 'उच्छूढ'त्ति अवक्षिप्तः - अर्गलास्थानान्निष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थ, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात्, भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीर्घौ बाहू येषां ते तथा ।
'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततली - लोहिततली अवपतिती - क्रमेण हीयमानोपयी मृदुकी - कोमलौ मांसली सुजाता जन्मदोषरहिती अच्छिद्रजालीअङ्गुल्यन्तराल समूहरहितौ पाणी - हस्तौ येषां ते तथा, पाठान्तरं 'रत्ततलोवइयमंसलसुजायपसत्थलक्खण-अच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ - शउभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरकोमल-वरंगुलीया' इति पीवरा - स्वशरीरानुक्रमोपचयाः कोमला मृदवो वराः - प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिकाः, पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org