________________
प्रतिपत्तिः-३, दीव०
२९२ विक्रमः-पराक्रमो विलासिता-विलासः संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः विलासवती गति-गमनं येषांतेवरवारणमत्ततुल्यविक्रमविलासितगतयः, ‘पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो-रोगशोकायुपद्रवाभावात्, कचित्पुनरेवं पाठः ‘पमुइयवरतुरगसिंहअइरेगवट्टियकडी' तत्र प्रमुदितयो-रोगकोशाधुपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशादतिशयेन वर्तिता-वृत्ति कटिर्येषां ते प्रमुदितवरतुरगसिंहातिरेकवर्तितकटयः । ___'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजातः-संगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो येषां ते वरतुरगसुजातगुहयदेशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्व निरुवलेवा' आकीर्णो–गुणैव्याप्तः स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा-लेपरहितशरीरमलाः, यथा जात्याश्चो मूत्रपुरीषाधनुलिप्तगात्रो भवति तता तेऽपीति भावः, “साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवइरवलियमज्झा' संहृतसौनन्दं नाम ऊद्धर्वीकृतमुदूषलाकृति काष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोहत्, मुसलं-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तथा यन्निगरितं-सारीकृतं वरकनकं तस्य-तन्मयं त्सरुखङ्गादिमुष्टिर्निगरितवरकनकत्सरुस्तैः सद्दशः तेषामिवेत्यर्थः, ततावरव्रस्येव क्षामोवलितो-वलयः संजाता अस्य वलितः-वलियत्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसशवरवज्रवलितमध्या- 'झसविहगसुजायपीणकुच्छी' झषो-मत्स्यः पक्षी-प्रतीतस्तयोरिव सुजाती-सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ-उपचितौ कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झषोदरा' झषस्येवोदरं येषां ते झषोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपलेपानीति भावःकरणानि-चक्षुरादीनीन्द्रियाणि येषांतेशुचिकरणाः, कचिदेव 'पम्हवियडनाभा' इतिपाठस्तत्रपद्मवद्विकटा-विस्तीर्णानाभिर्यषांतेपद्मविकटनाभाः, अत एव निर्देशादनाभ्यपि समासान्तः एवमुत्तरपदेऽपि।
'गंगावत्तयपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउमगंभीरवियडनाभा' गङ्गावर्तक इव दक्षिणावर्ता तरङ्गैरिवतरङ्गैस्तिसृभिर्वलिभिभङ्गुरातरङ्गभङ्गुरा रविकिरणैःसूर्यकरैस्तरूणं-नवंतप्रथमंतत्कालमित्यर्थःयद्बोधितं-उन्निद्रीकृतमतएव आकोसायंत' इत्याकोशायमानं विकचीभवदित्यर्थ पद्मं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्त्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताकोशायमानपद्मगम्भीरविकटनाभाः, ‘उजुयसमसहियसुजायजच्चतणुकसिणनिद्धआइजलडहसुकुमालमिउरमणिज्जरोमराई' ऋजुका-नवक्रा समा-न काप्युद्दन्तुरा सहिता-सन्तता न त्वपान्तरलाव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यादुर्जन्माअतएव जात्याप्रधाना तन्वी नतु स्थूरा कृष्णा नतुमर्कटवर्णा, कृष्णमपि किञ्चिन्निर्दीप्तिकंभवति तत आह-स्निग्धा आदेया-दर्शनपथमुपगता सती उपादेया सुभगाइति भावः
एतदेव विशेषणद्वारेण समर्थयते-‘लडहा' सलवणिमा अत एव आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया रम्या रोमराजि-तनूरुहपङ्कितर्येषां ते ऋजुकसमसहितसुजातजात्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीयरोमराजयाः, सन्नयपासा' सम्यग्-अधोऽधःक्रमेण नतौपाश्र्वी येषांते सन्नतपााः अधोऽधःक्रमावनतपार्खा इत्यर्थः, तथा संगयपासा' इति संगतौ-देहप्रमा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only