________________
२९४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ सम्यक् पाठशुद्धरपि कर्तुमशक्तत्वात्, वस्त्रविधयो बहुप्रकारा भवेयुर्वरपट्ट- नोद्गताःप्रसिद्धतत्तत्पत्तनविनिर्गता 'विविधवर्णरागकलिता' विविधैर्वर्णैर्विविधै रागैः-मञ्जि-ठारागादिभि कलिताः, तथैवानग्नका अपि द्रुमगणा अनेकबहुविविधविसापरिणतेन वस्त्रधिनोपपेताः, कुशिकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावप्रतिरूपाः १०। _ 'उत्तरकुराए णं भंते ! कुराए मणुयाण मित्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'मनुजानां' मनुष्याणां कीदृशः कीदृश आकारभावः, प्रत्यवतारस्वरूपसम्भव इति भावः, प्रज्ञप्तः?, भगवानाह-गौतम ! 'तेणमिति पूर्ववत् मनुष्या अतीव' अतिशयेन सोमं द्दष्टिसुभगंचारु रूपं येषां तेऽतीवसो मचारुरूपाः ‘भोगुत्तमगयलक्खणा' इति उत्तमशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात्, उत्तमाश्चते भोगाश्च उत्तमभोगास्तद्गतानि-तत्संसूचकानिलक्षणानि येषांते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीकाः-सशोभाका भोगसश्रीकाः, तथा सुजातानि-यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरःशिरःप्रभृतीन्यङ्गानि तैः सुन्दरमङ्ग-समग्रं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः। _ 'सुपइट्ठियकुम्मचारुचरणा' इति सुष्ठु-शोभनं यथा भवति एवंप्रतिष्ठिताः कूर्मवदुन्नतत्वेन चारवश्चरणाः-पादायेषां ते सुप्रतिष्ठितकूर्मचारुचरणाः, रत्तुप्पलपत्तमउयसुकुमालकोमलतला' इति रक्तं-लोहितमुत्पलपत्रवत् मृदु-मार्दवोपेतमकर्कशमिति भावः तच्चासुकुमारमपिसंभवति यथाघृष्टमृष्टपाषाणप्रतिमा तत आह-सुकुमारं-शिरीषकुसुमवदकठिनं कोमलं-मनोज्ञंचरणतलं येषां ते रक्तोत्पलपत्रमूदुसुकुमारकोमलतलाः, तथा 'नगनगरमगरसागरचकं कहरंकलक्खणंकियचलणा' नगः-पर्वतः नगरमकरसागरचक्राणि-प्रतीतानिअङ्कघर:-चन्द्रमा अङ्कः-तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकरसागरचक्राङ्कधराङ्कलक्षणाङ्कितचरणाः, 'अणुपुव्वसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा, किमुक्तं भवति?-पूर्वस्याः पूर्वस्याउत्तरोत्तरा नखं नखेन हीनाः “नहंनहेणहीणाओ" इति सामुद्रिकशाश्त्रवचनात् सुसंहताः-सुश्लिष्टा अङ्गुलयो येषां ते अनुपूर्वसुसंहताङ्गुलीकाः । _ 'उन्नयतणुतंबनिद्धनखा' उन्नता-ऊर्द्धनतास्तनवस्ताम्राः स्निग्धाः' स्निग्धच्छायानखाः पादगाइतिसामर्थ्यलभ्यं तद्वर्णनाधिकाराद्येषांतेउन्नततनुताम्रस्निग्धनखाः, संठियसुसिलिठ्ठगूढगुप्पा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुश्लिष्टौ-मांसलौ गुल्फौ-गुलुकौ येषां ते संस्थितसुश्लिष्टगूढगुल्फाः, 'एणीकुरुविंदवत्तवट्टाणुपुव्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्येव वर्त-सूत्रवलनकं तस्येव वृत्ते-वर्तुले आनुपूव्येण-क्रमेण ऊर्ध्वं स्थूरे स्थूरतरे इति गम्यंजके येषांते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजङ्घाः ‘समुग्गनिमग्गगूढजाणू समुद्गकस्येवसमुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढे मांसलत्वादनुद्धते जानुनी-अष्ठीवन्तौ येषां ते समुद्गनिमग्नगूढजानवः, ‘गयससणसुजायसन्निभौरू' गजो-हस्ती श्वसिति-प्राणित्यनेनेति श्वसनः-शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभौ ऊरू येषां ते गुजातशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात्
'वरवारणमत्ततुल्लविकाविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, मत्तो-मदोन्मत्तो यो वरः-प्रधानो भद्रजातीयो वारणो-हस्ती तस्य तुल्यः-सशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org