SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २९३ तत्र प्रदेशेबहवो मण्यङ्गका नामद्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोत्तको हेमजालं मणिजालं कनकजालं सूत्रकमुच्चीकटकं खुडकाम (डुका ए) कावलि कण्ठसूत्रं मकरिका उरस्कन्धौवेयकं श्रोणीसूत्रकं चूडामणि कनकतिलकं फुल्लकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चकं तलभङ्गकंतुडितं हस्तमालकं हर्षकं केयूरं वलयंप्रालम्बमङ्गुलीयकं वलक्षंदीनारमालिका काञ्चो मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्ज्वलं घण्टिका किङ्किणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकतः प्रत्येतव्याः, कथम्भूताः ? इत्याह-काञ्चनमणिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्सापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावप्रतिरूपा इति ८। ___'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो गेहाकारा नाम द्रमुगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा ते प्रकाराडालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकद्विशाकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तत्र्यचतुरन्द्यावर्तसंस्थितानि पाण्डुरतलहर्म्य मुण्डमालहर्म्य, अथवाधवलगृहाणि अर्द्धमागधविभ्रमाणिशैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्ठकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि ‘अप्पेगे' इति भवनविकल्पाअत्र बहुविकल्पाः, एतेषांचपरस्परं विशेषोवास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह-विडंगे'त्यादि, विटङ्क:-कपोतपालीजालवृन्दं गवाक्षसमूहः निहो-गृहैकदेशविशेषः अपवरकः-प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभि कलिताः, तथैव गृहाकारा अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह- 'सुहारुहणसुहोत्ताराए' इति सुखेनारोहणं-ऊर्ध्व गमनं सुखेनोत्तारःअधस्तादवतरणं यस्य दर्दरसोपानपङ्कयादिभिःसुखारोहसुखोत्तारस्तेन, तथासुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्राणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः ? इत्याह-दर्दरसोपानपत्रिकलितेन, हेतौ तृतीया, ततोऽयमर्थः-यतो दर्दरसोपानपत्रिकलितस्ततः सुखारोहसुखोत्तारः, 'पतिरिकहविहाराए' प्रतिरिक्ते-एकान्तेसुखविहारः-अवस्थानशयनादिरूपोयत्र प्रतिरिक्तसुखविहारस्तेनोपपेता, सर्वत्र स्त्रत्वनिर्देशः प्राकृतत्वात्, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्व यावप्रतिरूपकाः ९॥ ___ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽनग्नका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !। 'जहा से' इत्यादि, आजिनकं नाम-चर्ममयं वस्त्र क्षोमं-कासिकं कम्बलः-प्रतीतः दुकूलं-वस्त्रजातिविशेषः कौसेयं-त्रसरितन्तुनिष्पन्नं कालमृगपट्टः-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टानि-प्रतीतानि आभरणचित्राणि आभरणैश्चित्राणि-विचित्राणिआभरणचित्राणि ‘सण्ह' इतिश्लक्ष्णानिकल्याणकानि-परमवस्त्रलक्षणोपेतानि गम्भीराणि-निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यानि 'नेहल'त्ति स्नेहलानि-स्निग्धानि 'गया(ज)लानि' उद्वेल्यमानानि परिधीयमानानिवागर्जयन्ति,शेषसम्प्रदायादवसातव्यं, तदन्तरेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy