________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५
'वनमालाकयग्गए चेवे 'ति वनमाला - चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृताग्रं तथाभूतं सद् दीप्यमानं, यथैव चित्राङ्गका अपि नाम द्रुमगणा अनेकबहुविविधविसापरिणतेन ग्रन्थिमवेष्टिमपूरिसङ्घातिमने चतुर्विधेन माल्यविधिनोपपेताः कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपकाः ६ ।
२९२
,
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा तत्परमान्नं- पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह - ये सुगन्धाः - प्रवरगन्धोपेताः समासान्तविधेरनित्यत्वादत्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र, वराः - प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसंपादितात्मलाभा इति भावः, कमलशालितन्दुलाः, यच्च विशिष्टं विशिष्ट - वादिसम्बन्धि निरुपहतमिति - पाकादिभिराविनाशितं दुग्धं तै राद्धं पक्वंपरमकलशालिभिः परमदुग्घेन च यथोचितमात्रापाकेन निष्पादितमित्यर्थ, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारदघृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्चक्रवर्त्तिनो भवेत् कुशलै सूपपुरुषैः - सूपकारैः पुरुषैः सज्जितो-निष्पादितः चतुष्कल्पसेकसिक्त इवादनः, चत्वारश्च कल्पाः सेकविषया रसवतीशास्त्रभिज्ञेभ्यो भावनीयाः, स चौदनः किंविशिष्टः ? इत्याह
कलमशालिनिर्वर्त्तितः– कलमशालिमयो विपको - विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसकलसित्थे' इति सबाष्पानि - बाष्पं मुञ्चवन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि - परिपूर्णानि सित्थूनि यत्र स सवाष्पमृदुविशदसकलसित्थुः, अनेकानि यानि शालनकानि - पुष्पफलप्रभृतीनि तैः संयुक्तःसमुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः ? इत्याह
परिपूर्णानि - समस्तानि द्रव्याणि - एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृती - यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शै सामथ्यार्दतिशायिभिर्युक्ताः - सहिता बलवीर्यहेतवः परिणामा यस्य स तथा अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपपेता इति भावः, तत्र बलं - शारीरं वीर्यं - आन्तरोत्साहः, 'इंदियबलपुट्ठिवद्धणे' इति, इन्द्रियाणां - चक्षुरादीनां बलं - स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि - अतिशायी पोष इन्द्रियबलपुष्टिसतां वर्द्धयति, नन्द्यादित्वादनः, इन्द्रियबलपुष्टिबर्द्धनः, तथा क्षुच्च पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधानः कथितो यो गुडो या कथितं प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी - खण्डशर्करा यच्च प्रधानं धृतं तानि उपनीतानि - योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनी तः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स इव मोदकः श्लक्ष्णसमितिगर्भ - अतिश्लक्ष्णकणिमूलदलः प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावत्प्रतिरूपाः ७ ।
'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International